________________
श्रीवर्धमानमूरिविरचितं [स. २. २२०७-२२१७]
राज्यबन्धं परित्यज्य दक्षः पक्षीव पञ्जरम् । आत्मारामाभिरामां स दीक्षाशां शिश्रिये मुदा ||२२०७ || कृतकेशोद्धृतिर्नत्वा वज्रनाभगुरुं तदा ।
छत्रीभूते गुरोः पाणौ पपाठेति क्षमापतिः ।। २२०८ ॥ करोमि भगवन्नेवं सामायिकमिह व्रतम् ।
सर्वे सावद्यकं योगं प्रत्याख्यामि ध्रुवं त्रिधा ।। २२०२ ॥ तदा केवलिनं राजमुनिं चानम्य भक्तितः । साश्रुनेत्रः समं राज्ञा सर्वो लोकः पुरे ऽगमत् ।। २२१० । लब्धसंयमसाम्राज्यो यथाकल्पमनल्पधीः ।
विनयी विजहारैष राजर्षिर्गुरुभिः समम् ।। २२११ ॥ आचाराङ्गं तथा सूत्र कृच्च स्थानाङ्गमप्यथ । समवायाङ्गं विवाहमज्ञप्तिर्भगवत्यसौ ।। २२१२ ॥ ज्ञाताधर्मकथा तस्मादुपासकदशा तथा । अथान्तकृद्दशा चानुतरोपपातिका दशा ।। २२१३ ॥ प्रश्नव्याकरणं चात्र विपाकश्रुतमेव च । सूत्रादर्थादपीत्येकादशाङ्गान्यथ सो ऽपठत् ।। २२१४ ॥
त्रिभिर्विशेषकम् ||
२४८
ww
उपवासोनोदरते वृत्त्यल्पत्वं रसोज्झनम् ।
संलीनता वपुः क्लेश इति बाह्यं तपश्चरन् ॥ २२१५ ॥ प्रायश्चित्तं वैयावृत्यं स्वाध्यायो विनयस्तथा ।
कायोत्सर्गश्व सद्ध्यानं तन्वन्नित्यान्तरं तपः ॥ २३१६ ॥ स सद्वीर्यः स्फुरद्धैयैः सुश्लिष्टान्यपि हेलया । कर्माणि जर्जरीचक्रे काननानीव कुञ्जरः ।। २२१७ ॥
त्रिभिर्विशेषकम् ॥