________________
२४६
श्रीवर्धमानसूरिविरचितं [स.२.२१८४-२१९४]
विषयायत्तचित्तस्य प्रियायामवनीपतेः । क मे सर्वोत्तमं शीलमनिमब्रह्मजीवितम् ॥ २१८४ ॥ उपवासकृतावासमङ्गभङ्गकरं तपः । धरोद्धरणधुर्यस्य धवलस्येव मे कुतः ॥ २१८५ ॥ निरन्तरचरचिन्ताचान्तस्वान्तस्य सर्वतः। मम संयमलीनाया भावनायाः कथा कुतः ॥ २१८६ ॥ यदि राज्यं परित्यज्य द्रुतं गृढे महाव्रतम् । शुद्धं चतुर्विधं धर्म कतु स्यां तदहं क्षमः ॥ २१८७ ॥ एवमुद्वेलसंवेगः संप्रचार्य बुधार्यमा । स व्यजिज्ञपदिष्टार्थदायकं मुनिनायकम् ॥ २१८८ ॥ प्रभो ज्ञानसभाधीश धर्मोद्धरणकारणम् । अतुल्यं मातृवात्सल्यमिवादिष्टं तबाखिलम् ॥ २१८९ ।। आनृण्यं पुण्यवाल्लोके भजेत्प्रत्युपकारतः । भवभ्रमभिदस्तत्त्वोपदेशस्य न ते धुनः ॥ २१९० आतयोत्तापितस्येव मुधाचाराभिषेचनम् । दारिद्योपद्रुतस्येव चिन्तारनोपलम्भनम् ॥ २१९१ ॥ मान्धकारविवरण विष्टस्येव दीपिका । पयोधिमध्यनिक्षिप्तस्येव प्रवहणं वरम् ॥ २१९२ ॥ विकटाटविकागर्भभ्रष्टस्यवेष्टसार्थपः । अस्ताघकूपपतितस्येवोद्धरणयश्चिका ।। २१९३ ॥ अनन्तसंसृतिभ्रान्तिश्रान्तदान्तस्य थे ऽधुना । बभूव मुक्तिसंप्राप्त्यै वाहनं तव दर्शनम् ॥ २१९४ ॥
चतुर्भिः कलापकम् ॥ ततो विस्तारितोपन श्रीसर्वज्ञमणीतया ।