________________
V
vvvvvvvv...
[स.२.१४५०-१४६१] वासुपूज्यचरितम् २४५
तं चिद्रूपश्चतूरूपं धर्म सम्यग्निशम्य सः । अथ पद्मोत्तरो राजा व्याजहार मुनीश्वरम् ॥ २१७२ ॥ धर्मेश धन्य एवास्मि यस्य भाग्योदयैर्भवान् । धर्ममीशमाचख्यौ मोक्षश्रीसौख्यकारणम् ॥ २१७३ ॥ मचेतसि चमत्कारं विचारस्त्वत्कृतो ऽकृत । खामिकस्तु संदेहः प्ररोहं कुरुते हदि ॥ २१७४ ॥ व्रतं हि गृह्यते सद्भिर्भेत्तुं दुःकर्मणां मणम् । ध्यानतः केवलज्ञाने संपने किं फलं व्रतात् ॥ २१७५ ॥ आलोकाय गृहे लोका दोपयन्ति हि दीपकम् । स चेचण्डांशुतो जातः किं काय तेन तद्दिने ॥२१७६ ॥ ततः प्रत्युत्तरं प्राह पृथ्वीनाथार्थितो मुनिः । उतं युक्तं त्वया राजकि तु तत्कारणं शृणु ॥ २१७७ ॥ गोत्रबैनरैनैव सद्गणो ऽपि प्रणम्यते । अलंकृतनृपश्रीस्तु वन्यते नम्रमौलिभिः ॥ २१७८ ॥ एवं न केवलज्ञानी गृहस्थो नभ्यते जनः । गृहीतचारुचारित्रः शक्रैरपि स पूज्यते ॥ २१७९ ॥ अतो दिशन्ति चारित्रं केवलज्ञानतो ऽधिकम् । तस्मिल्लँब्धे ऽपि तल्लब्धुं तेन धावन्ति धीधनाः ॥२१८०॥ एवं निशम्य सम्यक्त्वतत्त्वगौरी गुरोर्गिरम् । अप्रमत्ते चिरं चित्ते धत्ते स्मेति नृपस्तदा ॥ २१८१ ॥ आचख्यौ चतुरो धर्माच्श्रीमान्यानेषु मे गुरुः । संपूर्णमेकमप्येषु न कर्तुमहमीश्वरः ॥ २१८२ ॥ पात्रे क्षेत्रे ऽनुकंप्ये च देयं दानमिति स्थितिः । महाव्रतधरा राज्ञो मम दानं न गृह्णते ॥ २१८३ ॥
पत।