SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ श्रीवर्धमानसूरिविरचितं [स.२.२१६३ - २१७१] तदावेदय वेrज्ञ भवान्तं लप्स्यसे कथम् । त्वमद्यापि कियत्कर्मा किंस्वरूपः किमुद्यमः ॥ २१६३ ॥ इति चिन्तयतस्तस्य प्रशस्तोज्जवलभावनाम् । चिक्रीड चेतने चित्तं चिरं वैराग्यरङ्गतः ॥ २१६४ ॥ यथा यथा स्थितं चित्तं ज्योतीरूपे ऽस्य चेतने । तथा तथागाद्वियमातपे करको यथा ।। २१६५ ॥ विलीने मनसि क्षीणेष्वभितो घातिकर्मसु । दग्धरज्जुसमानेषु भवोपग्राहिकर्मसु ।। २१६६ ॥ सद्ध्यानामृतसिक्ताया भाषनात्रततेः फलम् । चन्द्रोदरो saनीपालः केवलज्ञानमासदत् ।। २१६७ ॥ ॥ युग्मम् ॥ २४४ ततः कृते महोत्साहे पुष्पवृष्टि पुरःसरे । पद्मावत्या वितीर्णे च मुनिवेषे यथाविधि ।। २१६८ ॥ कलावत्या धर्मरुचेर्जिनदासस्य मन्त्रिणः । दत्त्वा दीक्षां विहृत्योर्व्यां कृत्वा तत्त्वप्रकाशनम् ।।२१६९ ।। विधायानशनं मासपर्यन्ते पुण्यभूतले । देहं त्यक्ता ययौ मुक्तिं चन्द्रोदरमहामुनिः ।। २१७० ।। त्रिभिर्विशेषकम् ॥ दानशीलतपोधर्मरहितो ऽपि शिवं पुमान् । चन्द्रोदर इवानोति भावनायाः प्रभावतः ॥ २१७१ ॥ इति भावनायां चन्द्रोदरनपतिकथा ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy