________________
[स.२. २१५१-२१६२] वासुपूज्यचरितम्
सपनीमत्सराच्चक्रे वक्रतां रुक्मिणी वरम् । प्रिया प्रियेण मयका यद्दग्धासि इतो ऽस्मि तत् ।। २१५१ ।। निः कृत्रिमप्रेमवती सती हृदयवल्लभा ।
कथं मया विराद्धासि धिग्मां धर्मबहिर्मुखम् ।। २१५२ ॥ तस्य प्रेमानुबन्धस्य कीदृगाचरितं मया । अश्रोतव्यचरित्रो ऽहमद्रष्टव्यमुखोऽस्मि तत् ॥ २१५३ ॥ एवं जल्पत्यपि क्ष्मापे सा नैवोर्ध्वं शिरो ऽकरोत् । प्रियापमानप्राग्भारभारितेव कलावती ।। २१५४ ॥ ततश्चन्द्रोदरच चित्ते चिन्तामचञ्चले ।
२४३
यः स्यादस्या मयि क्रोधः सो ऽल्पः कारणमानतः ॥ २१५५॥ तत्प्रसतिं प्रिया केनोपायेनासौ विधास्यति ।
यद्वा का मम चिन्तास्याः स्वं तावच्चिन्तयामि न ।। २१५६ ॥ ममाप्रसत्तेरेषाभूदप्रसन्नाधुना ध्रुवम् ।
स्वयं दाहस्वरूपोऽग्निर्दहतीन्धनमन्तिके ।। २१५७ ॥ तत्किमात्मन्प्रसन्नत्वं न त्वं धत्से सदा हृदि ।
यतः प्रसन्ने त्वय्येव प्रसन्नमखिलं जगत् ।। २१५८ ॥ नं चित्रयसि चिद्रूप यदि त्वं हितमात्मनः । ततस्ते को sस्ति यः पीडां धृत्वा तत्कथयिष्यति ।। २१५९ ॥ त्वमेकः कर्मणां कर्ता भोक्तैकस्तत्फलस्य च ।
अन्ये संयोगजाः सर्वे भावाः कर्मविनिर्मिताः ॥ २१६० ॥ मातृ पुत्रपितृभ्रातृकलत्र स्वजनादयः ।
सर्वे स्वार्थाय ताम्यन्ति त्वदर्थाय न कथन ।। २१६९ ।। सर्वभूतहिता या तु सद्गुरोर्धर्मदेशना ।
संसार व्यवहाराधिवाधे त्वयि न स स्थिता ।। २१६२ ॥