________________
२४१
[स.२. २१२८-२१३८] वासुपूज्यचरितम्
उवाच सचिवो ऽप्युच्चैहीं महाराज किं कृतम् । तयोर्मुधासि शापेन पापे ऽस्मिन्पतितो ध्रुवम् ॥२१२८ ॥ तत्तस्याः स्नानपानीयमुपानीय तथाप्यहम् । त्वां धर्मरुचिपाणिभ्यां छिन्नाभ्यामपि सेचये ॥२१२९।। इत्युक्त्वा त्वरितं गत्वा दीर्घदुःखोमिकल्मषाम् । स पट्टराज्ञीमाचष्ट मन्त्री मधुरया गिरा ॥ २१३० ॥ त्वद्विडम्बनपापेन दवि तापे ऽपतन्नृपः। . अस्तु त्वदीयस्नानाम्बुस्पर्शपुण्येन निय॑थः ॥ २१३१ ॥ इति क्षितिपतिक्लेशश्रुतिपुष्टमहाशुचः। पुत्र्याः पितेव स्नानाय देव्या मन्त्री शिरोवलम् ॥२१३२॥ यावच्चकर्ष स प्राग्वत्तावद्धम्मिल्लमैक्षत । पूर्वच्युतं च धम्मिल्लं रत्नोयो तस्य बिम्बवत् ॥ २१३३ ॥
॥ युग्मम् ॥ अहो शीलमहो शीलमिदं देवि तवाद्भुतम् । कृत्तो ऽपि केशपाशः स्राग्येनाजनि पुनर्जनिः ॥२१३४॥ इति स्तुतिं सृजन्देव्याः केशान्प्रक्षाल्य तज्जलम् । स्वर्णकुम्भस्थमादाय सो ऽगाद्धर्मरुचेः पुरः ॥ २१३५ ।। अक्षतावेव तस्यापि मन्त्री हस्तौ व्यलोकयत् । निर्जितारुणपद्माभौ प्रारहस्तौ च तयोरधः ॥ २१३६ ॥ अहो ते ब्रह्मचारित्वमहो ते निर्मलं तपः। यत्पुण्यामृतसेकेन सद्यः कन्दलितौ करौ ॥ २१३७ ।। स्नपयाशु स्वपाणिभ्यां देवीस्त्रानजलैर्नृपम् । त्वत्कलङ्कप्रदानोत्थव्ययं निर्व्यथय द्रुतम् ॥ २१३८ ॥ इत्युक्ते सो ऽचलद्यावज्जलकुम्भं सुधीर्दधत् ।