________________
२४. श्रीवर्षमानसूसिविरचितं [स.२.२११६-२१२७]
अथाह भूपः पीडाया मूर्तेरवयवैरिव । दीनमन्दातुरैर्वणः पीडयद्भिः परिच्छदम् ॥ २११६ ॥ उपचारचयैरेभिः शमाय प्रथितैय॑था । वर्धते प्रत्युतैवासौ लोभो लाभवतामिव ॥ २११७ ।। तदेवमेव स्थातव्यं यद्भविष्यतयाधुना । असावहमियं पीडा क्रीडावः किं भवेदिति ॥ २११८ ।। उदासे जिनदासेन वागथो वृद्धमन्त्रिणा। खजल्पः कापि नासत्यः सत्यस्तु वि दुर्लभाः ॥२११९।। पुनस्ताचिन्तयामीति क्षणं स्तब्धीकृताकृतिः । अभिनीय स्मृतिं चैष सचिव मोचिवाबृपम् ॥ २१२० ॥ महासती महादेवी जिनधर्मधुरंधरा । कुमारब्रह्मचारी च स धर्मरुचिरुचकैः ।। २१२१ ॥ तयोहजुषोर्यनस्तद्गुणालोकनं बहिः । सा भिक्षा सागतयोः कामधुकल्पक्षयोः ॥ २१.२२ ॥ अथ व्यथावशो ऽप्यूचे हा सहासमुखो नृपः । । तयोर्मन्त्रिन्कृथा मैवं मियो विप्लुतयोः कथाम् ॥ २१२३॥ इति श्रुत्वा बहिर्गेहाद्गत्वा वीक्ष्य सुधाकरम् । एत्यान्तः पाणिना दीपं स्पृष्ट्वा च सचिवो ऽब्रवीत्।।२१२४॥ विधुः सुधामयो ऽयापि दहत्यचापि पावकः । तत्कथं भाषसे गोप शुद्धयोर्विप्लवं तयोः ॥ २१२५ ।। दर्शयाम्यधुनैवाहं क्योतमविप्लुतम् । उक्तेन नीरयोगेन नीरोगं त्वां सृजञ्जवात् ।। २१२६ ॥ राजाप्युवाच किं रच्यं यन्मया दोषाङ्कन्या । देव्याः केशोच्चयः कृतः कृचौ धर्मरुवे करौ॥२१२७॥