________________
[स.२.२१०४ - २११५] वासुपूज्यचरितम्
२३९
स्वं जीवितं तयाप्यर्त्या मेने दुश्यवनं नृपः ।। २१०४ ॥ तस्यार्तो ऽन्तर्विशन्तीभिर्व्यथ्यमान इवार्तिभिः । शब्दधः कण्ठकूलानि कवन्वक्त्रेण निर्ययौं ।। २१०५ ॥ स्वयं मुखेन प्रहितो राज्ञः शब्दः स दूतवत् । दू कसो ऽपि सचिवानाह्वयत्मथितव्यथः ।। २१०६ ॥ विदधुवैद्यकं वैद्या मन्त्रवादं च मन्त्रिकाः । यथा यथास्य पृथ्वीन्दोर्व्यथापुष्यत्तथा तथा ।। २१०७ ॥ अद्वैतव दिवादैक जयालम्बनभूतया । आकुल्यभूथ क्ष्मापव्यथया व्यथितो जनः ॥ २१०८ ॥ शय्यायां न च क्ष्मायां न हिमैर हिमैर्न च । स न मृष्टान्न चामृष्टान्निर्वृतिं नृपतिर्ययौ ।। २१०९ ॥ जनैरसाध्ये रोगे ऽस्मिन्दैवात्किंचन दैवतम् । ख्याति यथैौषधं किंचित्तज्जीवति महीपतिः ।। २११० ।। इत्यादिव्यायिनं पूर्वमपूर्वध्वनिना जनम् । सावधानं विधायाभूदेषाम्बरसरस्वती ।। २१११ ॥ युग्मम् कस्याश्चन जिनस्वामिभक्तिकेतनचेतसः । सतीशतनमस्यायाः केशस्त्रपनवारिभिः ॥ २११२ ॥ जिनाचकस्य कस्यापि कुमारब्रह्मचारिणः । हस्तात्तैः स्त्रपयित्वास्त रुजं कुरुत भूभुजम् ॥ २११३ ॥ ॥ युग्मम् ॥ श्रुत्वेति सचिवैः प्रीतैरानीतः पुरविश्रुतः । अर्हद्भक्तः सतीवर्गो गणय ब्रह्मचारिणाम् ।। २११४ ॥ तस्मिन्कर्मणि राज्ञो ऽथ कार्यमाणे क्रमेण तैः । प्रत्येकं नरकत्रीडाकरी पीडा व्यवर्धत ।। २११५ ।।