SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २३८ श्री वर्धमानसूरिविरचितं [स.२.२०९२ - २१०३] धर्मामृतसरोम्भोजरुचौ धर्मरुचेः करौ ॥। २०९२ ॥ तस्य शासनदेवीनां पश्यन्तीनामपि क्षणात । उद्दामसामर्थ्यभृता दुःकर्मकरिणा हृतौ || २०९३ || युग्मम् ॥ नेन्द्रो ऽपकर्मसु बलीत्यशोचत्करविच्युतिम् । चञ्चत्पञ्चनमस्कारध्यानो धर्मरुचिस्त्वभूत् ।। २०९४ ॥ गृहगर्भे ऽतिपुष्टानि दुःखश्यामैर्मुखांशुभिः । तमीतमांसि पुष्णन्ती सा तु तापवती सती ॥। २०९५ ॥ किं करोमीति चिन्तार्ता पुरो कस्मात्परिस्फुरत् । मार्तण्डमण्डलमिव द्युतिमण्डलमैक्षत ।। २०९६ ॥ युग्मम् ।। किमेतदिति संभ्रान्तां नृपकान्तामथावदत् । प्रभागर्भगता कापि स्त्री दिव्याकारधारिणी ।। २०९७ ।। नाम्ना पद्मवतीं तीर्थेशितुः शासनदेवताम् । तद्भक्तभक्तां जानीहि मां हिमांशुसमानने ।। २०९८ ।। ये जिनैकरसास्तेषां पुण्यश्रीरिव संनिधिम् । न मुचे दुरितानीव व्यसनानि निरासितुम् ॥। २०९९ ।। मयि सत्यां तवेदृक्स्यान्निविडं न विडम्बनम् । मया तु सोडुमिच्छन्त्या शासनस्य प्रभावनाम् ।। २१०० ।। धर्मप्रभावनाम्भोभिः कलङ्कः पङ्कवत्तव । इदानीं क्षालनीयो ऽयमप्रक्षालित निर्मले || २१०१ ॥ युग्मम् ॥ तस्या हत्तापमित्युक्तया हत्वा देवी तिरोऽभवत् । भूमेग्रीष्मजमूष्माणं दृष्ट्येव जलदावलिः ॥ २१०२ ॥ प्रतिरोमभ्रमत्तप्ततर्कुस्तोमविजित्वरी । . अर्तिराकस्मिकी काचिदेितश्चाभूदिलाविभोः ।। २१०३ ॥ पराक्रमैकशो ऽयं वाढं संक्रन्दनीभवन् ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy