________________
२३२
श्रीवर्धमानमूरिविरचितं [स.२.२०२१-२०३०] .
प्रिये त्वमेव मे प्राणाश्चित्तं चेत्युदभूद्वचः ।।२०२१।।युग्मम्।। ततः खे दत्तनयना नयनानन्दकं प्रियम् । समायान्तं विमानेन सापश्यत्प्रेयसीयुतम् ।। २०२२ ॥ प्रियासौ मत्मियस्यापि तन्ममातिप्रिया ध्रुवम् । इति सा पीतिसरसां सपल्यामप्यदादृशम् ॥ २०२३ ।। किं जीवितं किमानन्दः किमुल्लासः किमुत्सवः ।
आयात्यसाविति स्मेरदृशा केनैष नैक्ष्यत ।। २०२४ ॥ - पादन्यासैः कुमारो ऽयमथ भूमिमभूषयत् । स्मेरयञ्जनवक्त्राणि कमलानीव भास्करः ॥ २०२५ ॥ प्रणमन्व्योमयुद्धादि पृष्टो राज्ञा जगाद सः। अभूत्कस्याप्यसौ मायामपश्चो वञ्चनाय वः ॥२०२६ ॥ ततः क्षितिपतिः क्लसकुमाराममनोत्सवः । दानैरानन्दवधिमकरान्माविशारीम् ॥ २२२७ । चिरं विरचितोशामतमानामागौरवः । ततः कृती. कृतार्थ स पार्थिवः स्वममन्यत । २०२८ ॥ मुहुरापृच्छयमानो ऽथ पृथ्वीन स भूपभूः । बद्धबाष्पेण सत्कृत्य प्रेषितः प्रेयसीयुतः ।। २०२९ ।। यान्ती पत्या समं पादौ प्रणिपत्य पितुस्ततः । विनयेन विराजन्ती राजपुत्रीदमब्रवीत् ।। २०३० ॥ यो धर्मरुचिनामा को धर्मामात्यो ऽस्ति धर्मवित् । सप्रेष्यतां धर्मकथासंवादाय मया समम् ॥ २०३१॥ निवेद्याथ कुमाराय कुमारब्रह्मचार्यौं।' गैषि धर्मशुचिधर्मरुचिः पुच्या सहामुना ।। २०३२ ।। संत्यक्तान्दुःखयन्देशानादृत्तानेष हर्षयन् ।