SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ [स.२.२०३३ – २०४४] बाजुपूज्यचरितम् २३३ ततः कलत्रद्वयवानवाप स्वां पुरीं वरः || २०३३ ॥ समायातं तमालोक्य पुत्रं प्रीतो ऽयं पार्थिवः । - राज्ये बलेन योग्यत्वादभिषिच्यादित व्रतम् ॥। २०३४ ॥ मन्त्रिन्यस्तमहीभारो महीपालसुतावशः । विद्याधराधिपसुतां स नाचष्टे न चेक्षते । २०३५ ।। महीपातुः सुता सा तु शीलशीलनशालिनी । दध्यौ सद्धर्मकर्मैकविचारविशदा तदा ।। २०३६ ॥ पत्युर्भवन्ति यावत्यो युवत्यः पाणिपीडिताः । पतिर्वारमात्तासां सो ऽह्नि तावद्दिनान्तरे ।। २०३७ ।। विलुप्य वारमन्यस्या रागाद्रागामुकः स्वयम् । स्पृश्यो ऽपि शीलवत्या न स्त्रियोपपतिवत्पतिः ॥२०३८ ॥ ततो विद्याधराधीश सुतावारनिवारणः । माम कामयन्नुविपतिः पापाय जायते ।। २०३९ ।। haaraमुपायेन न्यायेन च बलेन च । तद्वारे वार्य आगच्छन्नागतो नेक्ष्यते ऽपि सः ॥। २०४० ।। इति चेतसि निश्चित्य शीललीलावती नृपम् । सावदद्विनयानम्रवदना सदनागतम् || २०४१ ॥ कुलीना निष्कलङ्का च कनिष्ठा सा मम स्वसा । निरूप्यते ऽपि नो भूपरत्न किं रूपवत्यपि ।। २०४२ ॥ धर्मो ऽप्यसौ न धर्मज्ञ नयज्ञ न नयो ऽप्ययम् । गोत्राचारज्ञ नो गोत्राचारो ऽप्येष करोषि यम् ।। २०४३ ।। प्रभो पाणिगृहीतां तां युक्तया युक्तिज्ञ पालय । शुद्धधर्मनयाचारविचारिषु यशः स्पृश ।। २०४४ ।। इति प्रभृतिभिर्भाषाभङ्गीभिर्भाषितो ऽभितः ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy