________________
२३० श्रीवर्धमानमूरिविरचितं [स.२.१९९८-२००८]
चचार चारणमुनिर्मनुष्याप्रहते पथि ॥ १९९८ ॥ इहैव हि स्थितैः पाल्यः कुमारागमनोत्सवः । इत्यालोच्य जनैस्तस्थे तटिनीतट एव तैः ॥ १९९९ ॥ एष्यत्यय कुमारेन्दु न्यथा मुनिवागिति । चतुर्थाहर्निशीथे ऽपि स जनो जागरी स्थितः ॥२०००॥ रे रे मया हृतां कन्यां व्यूह्य नीत्वा क यास्यसि । अयं न भवसि क्षिप्रमस्त्रमस्त्रज्ञ सज्जय ॥ २००१॥ रे रे वधू मया व्यूढामेतामाच्छेत्तुमिच्छसि । एभिरेव पदैरोहि पातयामि शिरस्तव ॥ २००२ ॥ एवं वधूविरोधेन क्रोधेन व्याम्नि धावतोः । कयोश्चन जनेनोचैरुक्तिमत्युक्तयः श्रुताः ॥ २००३ ॥
त्रिभिर्विशेषकम् ।। किमेतदिति संभ्रान्तः स जनो दिवि दत्तहक् । खड्गमहारखाट्कारान्सहुंकारानकर्णयत् ॥ २००४ ॥ मा भूदिह कुमारेन्दुः स्याञ्चेत्तज्जयतादसौ । इत्यासन्नुक्तयो ऽन्योन्यं जनस्याकुलचेतसः ॥ २००५ ॥ एतस्मिन्नन्तरे खड्गक्षतक्षतजष्टिकृत् । पपात पुरुषः को ऽपि दिवो दीप्तवपुर्व्यसुः ॥ २००६ ॥ हा नाथ मां द्विषानेन हियमाणां न पासि किम् । रणाग्रमरणो ध्यानसिद्धसिद्धिः सुरो ऽसि यत् ।।२००७॥ एवं रुदत्याः कस्याश्चिदूर दूरं मृगीदृशः। .. शुश्रुवे हियमाणाया इव व्योमाध्वनि ध्वनिः ॥ २००८ ॥
...
..
.
.
. युग्मम् ॥
पुमांसं पतितं यावदापनक्षत भूपतिः। .