________________
....
.
[स.२.१९८७-१९९७] वासुपूज्यचरितम् २२९
ततः खेचरवक्त्रेभ्यः श्रुत्वा तदधिकश्रियम् । त्वत्मियं खेचराधीशः स कुमारमहारयत् ॥ १९८७ ॥ तेन कन्याविवाहार्थ कुमारो ऽभ्यर्थितस्ततः । नयधर्मसदाचारसत्यधीरभ्यधादिदम् ॥ १९८८ ॥ अद्यैव दैवमर्यादोल्लड्वि-रूपमयश्रियम् । दृग्लीलाख्यातशीलादिगुणां पर्यणयं वधम् ।। १९८९ ।। सती रूपवतीं चैकामकीकृत्य मृगीदृशम् । कस्मै सुखाय सुमुखी द्वितीया परिणीयते ॥ १९९० ।। वरं कारागृहक्षिप्तो वरं देशान्तरभ्रमी । वरं नरकसंचारी न द्विभार्यः पुनः पुमान् ॥ १९९१ ।। अभूषितो गृहायाति नामोत्यम्बुच्छटामपि । अक्षालितपदः शेते भार्याद्वयवरो नरः ॥ १९९२ ॥ दुर्भगापि विरूपापि सपत्नी सुभुवामपि । गात्रमात्रं सदाप्यन्तस्तताय शल्यमूलसेत् ॥ १९९३ ।। तत्ताहक्प्रेयसीप्रेमरसव्यसनिना मया । पुत्रीसंबन्धबन्धस्ते रुचितो ऽप्युचितो ऽपि न ॥१९९४ ।। इत्युक्त्वा विरते धनिरते नृपजन्मनि । विद्याधराधिपो जिहादोलयान्दोलयन्दिरम् ।। १९९५ ।। मत्पुत्री परिणीयासौ द्रष्टव्यापि कदापि न । किं तद्वह महाभाग भाग्यमेताक्वापि मे ॥ १९९६ ।। इत्यादिभिर्मिर भारैल्परोध्य विवाहितः । कृत्वा मण्डपरावि स सकलत्रः समेष्यति ॥ १९९७ ।।
त्रिभिर्विशेषकम् ।। इति तत्कृपयादिश्य सोश्रमस्वम्भ कथां च वाम् ।