________________
[स.२. १९६३-१९७४] वासुपूज्यचरितम्
चित्तप्रियवियोगार्ता सापि भूपालकन्यका । दुःखौषधं ममास्त्वग्निरित्युच्चैराददे वचः || १९६३ ॥ युग्मम् ॥ आभूपरङ्क-पर्यन्तं जनानां मरणार्थिनाम् ।
तदा तदेव वचनं समं वक्त्रेष्वजायत ।। १५६४ ॥ इत्येकमतमाश्रित्य प्रत्यक्ष कर्मसाक्षिणि । जनो ययौ चितातीर्थ नदीतीरमहीतलम् ॥। १९६५ ।। व्यभज्यत जनैर्दूरादिह स्वस्य चिताकृते । खण्डं खण्डं भुवः खङ्गाकर्षणैर्मितमङ्गलैः ।। १९६६ ।
२२७
कल्याणतुल्यमूल्यात्तैः काष्ठखण्डकदम्बकैः । अहम्पूर्विकया तत्र व्यरच्यन्त जनैश्चिंताः || १९६७ ।। तच्चिताजालमालोक्य भविष्यत्तापशङ्कया ।
समकम्पन्त तत्सम जलस्थलदेवताः ।। १९६८ ।। विन्यस्य तृणपूलेषु वह्नि तस्मिञ्जनस्ततः । जीवितस्येव नासीरं समीरं मुखतो ऽक्षिपत् ।। १९६९ ॥ मुखमारुतवीचीभिः प्रेरिताभिर्मुहुर्मुहुः । विलक्षो ऽजनि लोको ऽयं नाज्वलज्ज्वलनः पुनः । । १९७० ॥ जनितज्वालनोपायव्रजेनापि जनेन सः । नाग्निर्ज्वलयितुं शेके कुतुकीवानिलैर्हसन् ।। १९७१ ॥ विलक्षा दिक्षु विक्षिप्तचक्षुः क्ष्मापसुता ततः । ददर्श दूरतः कायोत्सर्गसंवर्गितं यतिम् ।। १९७२ ।। दध्यौ च युक्तं कारुण्यसुधाब्धेरस्य संनिधौ । एतावज्जनतामृत्युहेतुर्ज्वलति नानलः ।। १९७३ ॥ तद्वन्दे ऽहमसंदेहं स्वार्थसिद्ध्यै जवादमुम् । भान्तीच्छाकल्पतरवो खुस्खो - भृशमीदृशाः ।। १९७४ ॥