SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २२६ श्रीवर्धमानमूरिविरचितं [स.२.१९५१-१९६२ तदन्तिगमनाद्वेष्यं न्यग्मुखो निःश्वसञ्जनः। आकाशसावकाशत्वं हन्तुं धूलिमुदक्षिपत् ॥ १९५१ ॥ आयूरुद्धदशद्वारे देहे गेहे ऽभितो ऽभ्रमि । प्रियं कुमारमन्वेतुमाकुलैरसुभिर्नृणाम् ॥ १९५२ ॥ तदा तेन कुमारेण सममेव गते हृदि । मूछोमगच्छदुचितं नन्दिनी मेदिनीपतेः ॥ १९५३ ॥ विलोक्य पिटकोद्भेदं दग्धस्योपरि तं नृपः। . मजन्दुःखभराम्भोधौ किंकर्तव्यजडो ऽजनि ॥ १९५४ ॥ पुनश्चैतन्यमापन्ना तदन्तिपथदत्तदृक् । . हा जीवेश क यातो ऽसीत्युक्तिगर्भ रुरोद सा ॥१९५५॥ तदा वदामः किं दुःखं महोदप्रमहो जने । तस्यां रुदत्यां जज्ञे ऽतिर्यद्रुमेषूपलेष्वाप ॥ १९५६ ॥ मुक्त हा तात हा मातहाँ दैवेत्यादि शब्दितः। चक्रन्द, विस्मृताक्रन्दकारणो ऽपि जनोऽथ सः ॥१९५७॥ शुचा रसीभवन्त्याथ समं विलसतः सतः । तज्जनस्य जगामाहस्त्रुटिमाहात्म्यभृत्तदा ॥ १९५८ ॥ चक्राहनादैः क्रन्दन्ती ताराभिर्वाष्पषिन्दुभृत् ।। तमोभिर्मुक्तकेशा च दु:खिनीक निशाप्यभूतः ॥ १९५९ ॥ चन्द्रे ऽप्युदयमाने ऽथ कुमारमुखशङ्कया । जनस्य हृष्यतो विघ्नं लक्ष्मलेश्वैव निर्ममे ॥ १९६० ॥ चक्षुष्याकलयन्कण्ठविलना रोदनक्रियाम् । मोहसुप्तो जनो यान्तीमजानीत निशां न सः॥१८३१ ॥ ततो गतसिताभीशुजीवितेशवियोगिनीः । रविच्छविचिता चक्रे पतन्तीक्ष्यि तारकाः ॥ १९६२ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy