________________
[स.२. १९३९-१९५०] वासुपूज्यचरितम्.
तमन्वचलत क्रोधादलेन प्रबलो गजः । पुच्छमूलस्थ एवामुं व्यथयनभ्रमद्भटः ॥ १९३९ ॥ इत्यभ्रामि चिरं कौतूहलाद्वीरेण वारणः। क्रोधद्वेषादिदोषाढ्यः क्षेत्रज्ञ इव कर्मणा ॥ १९४० ।। उद्दामवामपार्थातिभ्रान्तिश्रान्तिस्फुटद्धपुः । क्रुद्ध एव तदा तस्थौ स कृत्रिम इव द्विपः ॥ १९४१ ॥ खेदाच्छुष्यन्मदं प्रोधनिःश्वासं मीलदीक्षणम् । . उपेत्याग्रे कुमारस्तं करेणाताडयत्करे ॥ १९४२ ॥ क्रोधतापाद्गलद्रक्ते इव रक्ते दधदृशौ। चिक्षेपास्मिन्करं कुम्भी दुष्टः फणमिवोरगः ॥ १९४३ ॥ नश्यस्तिष्ठन्पतन्नुद्यनृपजन्मा तमग्रहः । गजमाकुलयदुष्ट ऋणिको धनिकं यथा ॥ १९४४ ॥ वेगाददृष्टोत्पतनः स्थिरं किल शिलामयम् । कुमारो ऽथ तमारोहल्लोकाग्रमिव योगवित् ॥ १९४५ ॥ तद्वीक्षाकौतुकोत्ताले जाते जाले गिनां ततः । पक्षीवोदपतत्पृथ्वीभागानागाग्रणीदिवि ॥ १९४६ ॥ तैरदर्शि दिचि श्यामधामश्रीः सामजो लसन् । कुमारद्युतिभिस्तारतडित्वानिव तोयदः ॥ १९४७ ॥ एष यात्येष यातीति जने जाग्रदनस्वने । करी कुमारमाणिक्यतस्करो ऽयं तिरोऽभवत् ॥ १९४८ ।। किमेतदिति चिन्तार्तिनिश्चलैश्चित्रगैरिव । जनैरजनि दुःखस्य चित्रशालेव सा पुरी ॥ १९४९ ॥ नयनकप्रिये तत्र कुमारे करिणा हृते । स्वसर्वस्वमिवामोचि जनानां नयनैः पयः ॥ १९५० ॥