________________
२२४
श्रीवर्धमानसूरिविरचितं [स.२.१९२७-१९३८]
पलायमाना हस्यो रयोपहतमारुताः। ललविरे मिथो मार्गरोधक्रोधसमुद्धराः ॥ १९२७ ॥ क्षणकरोत्यपि जगन्न येषां पतितं दृशि। . वीरैस्तैरप्यहो हस्तस्रस्तशस्त्रैः पलायितम् ॥ १९२८ ॥ किं वा बहु वदाम्येष प्राप्त एक्ष्यतां स्वयम् । नदनकालकल्पान्तकालमेघ इव द्विपः ।। १९२९ ॥ इत्युक्त्या सपरीवरौ तौ कुमारधरापती । रभसाभ्युत्थितौ नागमैक्षेतां कथिताधिकम् ।। १९३० ।। यावत्पश्यति भूजानिस्तावद्वातात्तृणैरिव । द्विपात्रस्तैर्जनैः शून्यं कृतं भूतलमग्रतः ॥ १९३१ ॥ द्विपे ऽस्मिन्दलयत्य?जालाहालकमालिकाः। पुरस्य कृपया कम्पमानो भूपतिरभ्यधात् ॥ १९३२ ।। को ऽप्यस्ति क्षत्रियापुत्रः कुत्रचिन्मच्चमूचये । दोर्बलेन पुरं पाति पात्यमानं द्विपेन यः ॥ १९३३ ।। इत्युक्त्वा पार्थिवः चक्षुर्यस्य यस्य मुखे ददौ । वीरः सद्यो नवोढेव स स न्यग्मुखतां दधौ ॥ १९३४ ॥ ततः कृतमहाक्रन्दे तस्मिन्नत्यातुरे पुरे । बद्धं वधूत्तरीयेणोत्तरीयं प्रोज्झ्य रंहसा ॥ १९३५ ॥ पर्युप्लुत्योच्चरोमाञ्चकञ्चको रामनन्दनः । रे रे मा मेति मातङ्गं कण्ठीरवरवो ऽगदत् ॥ १९३६ ॥ तन्नादभयसंभ्रान्तः स्थित्वा स्तब्ध इव क्षणम् । . स्वं चेतः पर्यवस्थाप्य क्रुधा तं प्रत्यधावत ॥ १९३७॥ न कुम्भी वामभागेन शक्नोति वलितुं जवात् । इत्यस्याश्रित्य तत्पार्थ कुमारः पेचकं गतः॥१९३८ ।।