SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ [स.२. १९१६-१९२६] वासुपूज्यचरितम् । .२२३ ताम्बूलपूरणस्थूलकपोलासु पुरन्धिषु । लसत्कुङ्कुमकौमुम्भशोभासूद्यदुलूलुषु ॥ १९१६ ॥ पठत्यन्वयमुत्ताले वैतालिककुले ऽभितः । वाद्यमानेषु वाघेषु सान्द्रमन्द्रतरस्वरम् ॥ १९१७ ॥ हिया न्यग्मुखयोः स्वैः स्वैरुन्मुखीक्रियमाणयोः । वधूटीवरयोर्जायमाने तारेक्षणे मुहुः ॥ १९१८ ॥ आपूर्णगगनो अनभुवनश्रवणेन्द्रियः। . . उदभूत्तुमुलः को ऽपि दिग्भित्तिभ्रंशभूरिव ॥१९१९ ।। - पञ्चभिः कुलकम् ॥ ततः किमिदमित्युच्चभूलते ततचक्षुषि ।।.. उत्कन्धरे धराधीश चन्द्रे चन्द्रोदरे ऽपि च ॥ १९२० ॥ को ऽपि राजपुमानेत्य वैधुर्यग्लपितस्वरम् ।। ऊचे वाचा त्वराचारकण्ठशोषेण रूक्षया ॥ १९२१ ॥ समासो गगनस्येव व्यासो विन्ध्यगिरेरिव । .. स्वामिन्क्रूरत्वदीक्षादिगुरुः पितृपतेरिव ॥ १९२२ ।। शुण्डावलितदन्तायो गर्जितर्जितदिग्गजः। दृग्गोचरस्य नामापि नाशयन्गात्रघट्टनैः ॥ १९२३ ॥ पुराट्टश्रेणिकायुग्मकूलङ्कषमहारयः । हिंसामहापगापूर इव दूरसमुन्नतः ॥ १९२४ ॥ वन्यः कश्चिदुपायातः कुतो ऽपि नगरान्तरम् । भृडैीतयशा लुब्धैर्दानवारिणि वारणः ॥ १९२५ ॥ चतुर्भिः कलापकम् ॥ तद्भिया स्तम्भमुन्मूल्य गजा गर्वमिवात्मनः। ' पलायांचक्रिरे न्यस्य कर्णेभ्योंहिषु चापलम् ॥ १९२६॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy