________________
[स.२. १८९२-१९०३] वामृपूज्यचरितम्
२२१
पूःप्रवेशं नरेशेन कुमारः कारितस्ततः ।। १८९२ ॥ राजलोके तनः पाणिग्रहमाङ्गलिकोत्सुके । आनन्दसुन्दरे त सा कन्या म्लानमाननम् ॥ १८९३॥ तादृशोदय दानन्दमन्थमन्थरया गिरा । अथैनामभ्यधादुःखपञ्जरी रत्नमञ्जरी ।। १८९४ ॥ वत्से कृत्स्नपरीवारमुखवारिरुहक्षपाम् । कालिकां कलयस्येवमद्यापि वदने कथम् ।। १८९५ ॥ रूपे निरुपमः काम्यकलावलिविलासभूः । अपूरयत्तव श्रद्धां शुद्धान्वयनृपात्मजः ।। १८९६ ॥ धीरोदात्ताकृतिर्लक्ष्यदाक्ष्यदाक्षिण्यभूषणः ।
नायं सपत्नीदुखं ते कदाचिदर्शयिष्यति ।। १८९७ ॥ वत्से तन्मुञ्च वैमुख्यं स्मितं भातु भवन्मुखम् । क्षणे ऽत्र स्वजनानन्दक्षीरनीरनिधेर्विधुः ।। १८९८ ॥ इत्याकर्ण्य गिरं मातुः सा तुवारकरानना । ऊचे भ्रूचेष्टितैरन्तः सूचयन्ती शुचं पराम् ।। १८९९ ॥ मातः कातरता नास्ति सपत्नीभ्यः कदापि मे । मत्तत्कर्मबन्धं ताः कुर्युरीर्ष्यासु तद्भयम् ।। १९०० ।। यथैता भविष्यन्ति तदतिप्रीतिरीतिभिः ।
चिन्तयिष्यामि ता भर्तृसुन्दरीः सोदरीरिव । १९०१ ॥ तदेतच्चेतसि न मे मातर्मालिन्य कारणम् ।
धत्ते ऽब्जिन्यस्ता मिस्रारिः किं संकोचनिमित्तताम् ॥ १९०२ ॥ किं तु प्रतिज्ञा मे यूरि राधावेधेन नामुना ।
अन्यः स राधावेधो ऽस्ति येन में हन्महोत्सवः ॥। १९०३ ।। अरैः सत्कर्मदुः कर्म चक्रयोर्वेदनामयैः ।
--