________________
श्रीवर्धमानसूरिविरचितं [स. २. १८८० - १८९१]
ययावकथयन्नेव कचिदुत्थाय मञ्चतः ।। १८८० ॥ इत्थं विसंस्थुले राजकुले काम्पील्यपार्थिवः । एत्य चन्द्रोदरस्याग्रे जाग्रदुर्जगीर्जगी || १८८१ ॥ उत्तिष्ठोत्तिष्ठ कोदण्डकलाधुर्य दधुर्यतः ।
२२०
वीरा मुखेष्वयोधत्वदुः कीर्तिमिव कालिकाम् || १८८२ ॥ सन्ति वीरास्त्वमेवासि राधावेधविधौ बुधः ।
सन्ति तेजस्विनो भास्वानेव राचिक्षये नमः || १८८३ ॥ मानवेन न केनापि वेध्या राधेति निश्वयम् ।
मिथो लज्जापहं राज्ञां हर साम्यश्रिया सह ।। १८८४ ॥ इत्यस्य वाग्भिरुत्थाय वहलीलायितं गतो । जगाम रामसू राधां इसद्भिवक्षितो नृपैः ॥ १८८५ ॥ षोडशे धन्वनि स्वैरमात्तवन्दितसज्जिते ।
संदधौ तत्र सूच्यग्रशिखं स विशिखं कृती ।। १८८६ ।। घृते प्रतिमितं लक्ष्यं भ्रमदालोकयन्नयम् । इदं मुहुरिहायातीत्यारचय्य स्थिरां दृशम् ।। १८८७ ॥ दृग्लक्ष्यसंमुखीं धृत्वा विशिखस्य शिखामसौ । चिरमाकृष्टकोदण्डश्चित्रन्यस्त इव स्थितः ॥ १८८८॥ युग्मम् ॥ तद्वाणाग्रे च लक्ष्ये च हृदयस्पर्धया रयात् ।
राज्ञां विधत्ते हरयुग्ममेहि रे याहि रां मुहुः || १८८९ ॥ न स मुञ्चञ्शरं मैक्षि न च खे संचरञ्शरः । वेध्यमेव तदा विद्धं विस्मितैवक्षितं नृपैः ॥ १८९० ॥ नृपेष्वथ महाश्चर्य लीलाधामसु रामसूः ।
अपायि श्रमभेदाय कैर्न श्लाघा सुधारसम् ॥ १८९१ ॥ औचित्याघानसन्मानसहानीतान्यभूभुजा ।