SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २१८ श्रीवर्धमानसरिविरचितं सि.२.१८५७-१८६८] खनन्हरिखुरैः क्षोणी कुर्वन्पद्यां रजोभरैः ॥ १८५७ ॥ ग्रामरामाभिराकृष्टहष्टिभिः स्मितहष्टिभिः । असंस्कृतमनोज्ञाभिरनाकृतं निरीक्षितः ॥ १८५८ ॥ दधिसारदधिक्षीरैः स्वैर्मनोभिरिवोज्ज्वलैः । प्रथितोपायनान्ग्रामद्धान्संमानयन्पथि ॥ १८५९ ॥ सिञ्चन्दिरदसन्दानां दानाम्भोभिर्वनद्रुमान् । दुस्तराः सुतराः कुर्वन्नुर्वीधूलीभरैथुनीः ॥ १८६० ॥ गिरिमध्याध्ववैषम्यं भिन्दन्स्यन्दननेमिभिः । क्षोभयनटवीसिंहानिसहनादैर्भुजाभृताम् ॥ १८६१ ॥ अज्ञातपथसंचारो विदग्धानां कथारसैः । क्रमात्कुमारः काम्पील्यपत्तनाभ्यासमासदत् ॥ १८६२ ॥ ॥ एकादशभिः कुलकम् ॥ सन्मान्य रसेनेन कुपारः स्थापितस्ततः । सुधाकरकरध्वंसोदामघामनि धामनि ॥ १८६३ ॥ धनुर्धरैकधौरेयंमन्यैरन्यैरपि द्रुतम् । अपूरि पूरियं वीरै राधावेधाय धावितैः ॥ १८६४ ॥ ततो ऽलंकृतमालोलध्वजच्छायाहिरक्षितैः । कलशैर्मन्मथस्पष्टनिधानकलशैरिव ॥ १८६५ ॥ विलासमण्डपं भूमिमण्डलाखण्डलस्ततः । अकारयन्मणिश्रेणिश्रीहसन्मञ्चसंचयम् ॥ १८६६ ॥युग्मम्।। सत्राहय न्यवेश्यन्त भुजभाजो महीभुजाः। बभौ तेषु त्विषा चन्द्रोदरश्चन्द्र इवोडुषु ॥ १८६७ ॥ क्लप्सयोर्कोन्नि यन्त्राग्रे षोडशद्वादशारयोः। सृष्टिसंहाररूपेण भ्राम्यतोरधऊर्ध्वयोः ॥ १८६८ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy