SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २१६ श्रीवर्धमानसूरिविरचितं [स.२.१८३४-१८४५] उत्सङ्गसङ्गिनीमेनां कदापि कलयन्नृपः। भूषितां भूरिभिभूपैः सभाभुवमभासयत् ॥ १८३४॥ अस्या रूपकलाशीलैः समः को ऽस्ति क्षितौ वरः। इत्यपृच्छन्नृपो दूतान्प्रभूतावनिचारिणः ॥ १८३५॥ यावद्वदन्त्यमी किंचित्तावन्नृपतिनन्दनी । नाहं विवाहं वाञ्छामीत्याह सा हर्षशालिनी॥ १८३६ ॥ अथैनामभ्यधाद्भूमिविभुलक्ष्यलक्षणः। पाणिग्रहस्य विमुखी वत्से त्वच्छेमुषी कथम् ॥ १८३७॥ न रतिः स्फुरति स्वान्ते येन केन विना तव । स त्वया श्वशुरावासे कायच्छायवदेष्यति ॥ १८३८ ॥ चेन्म्लायसि वियोगे मे तडागस्येव पद्मिनी । आनेष्यामि तदत्रैव मरालमिव ते वरम् ॥ १८३९ ॥ काम्यं यत्किचिदन्यद्वा दूरं तत्पूरयामि ते । वत्से विवाहमात्सर्यमुत्सास्य मदिच्छया ॥ १८४०॥ इत्याग्रहमहीयस्या महीपस्यापि भाषया । सेयं विवाहवार्तामप्यमन्यत न कन्यका ॥ १८४१ ॥ ततः कन्येयमेकान्ते पृथिवीकान्तकान्तया । विवाहाय मुहुः पार्थ्यमानादत्त गिरं चिरात् ॥ १८४२ ॥ राधावेधं विधाता यो याता नार्यन्तरं न यः । माता तेन केनापि कृतिना परिणायय ॥ १८४३ ॥ इति तद्वचनं देवीमुखादाकर्ण्य पार्थिवः। राधावेधकृते वीरानाह्वातुं औषयचरान् ॥ १८४४ ॥ अहं तु गन्तुमनसा सौहृदस्य परां धराम् । इहास्मि प्रहितो राज्ञा विज्ञापितमिदं वचः ॥ १८४५ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy