________________
[स.२.१८२२–१८३३] वासुपूज्यचरितम्
श्रीरत्नसेनः कुशली वयस्यः परमो मम । किमर्थं पार्थिवोत्तंसः स त्वां मयि नियुक्तवान् ।। १८२२ ।। इत्थं पृथ्वीभुजङ्गेन स पृष्टो हृष्टचेतसा । वाभिभूतजीमूतो दूतो वचनमाददे ।। १८२३ ।। युग्मम् ॥ कस्तस्य कुशलप्रश्नो यस्ते हस्ते ऽर्पितोदयः । स्वामिन्संकुचति कापि किं रचेः केलिवारिजम् ।। १८२४ ।। न स्वस्य किंचिदप्यल्पं स भूधव भवद्वशः । विधोरन्तःपुर क्रीडाचकोर इव मन्यते ।। १८२५ ॥ मर्त्यलोकार्य यत्कार्यमस्ति तस्यास्मदीशितुः । - तत्समाकर्णय क्षोणिवर्णिनी कर्णकुण्डल || १८२६ ॥ अस्ति श्रीरत्नसेनस्य कलत्रं रत्नमञ्जरी । या विराजति तत्पुण्यपादपस्येव मञ्जरी ।। १८२७ ॥ कलावती तु तत्कुक्षिकमलैकमरालिका । अस्ति तस्य महीनेतुस्तनया नयनोत्सवः ।। १८२८ ।। अदृष्टपूर्व शीलस्य रूपमा संसृतेरपि । तत्तदस्यां तदालोकधृतोत्कण्ठमिवागतम् ।। १८२९ ॥ तस्या धियं समालोक्य स्वतो ऽप्युपरिवर्तिनीम् । हियेव हृदये लीना छन्नं तस्थौ कलावलिः ।। १८३० ।। राजत्यसौ जिनग्रन्थ जिनाज्ञाजिनभक्तिभिः । व्याप्तकर्णशिरोहद्भिर्गौणाखिलविभूषणा ।। १८३१ ॥ दिद्युते नन्दनैर्नायं तथा भूपो यथा तथा ।
नावश्यायैस्तथा भाति गिरीन्द्रो गङ्गया यथा ।। १८३२ ।। नरेन्दुना सभादानदेवावसरभूमिषु ।
सहैव संचरत्येषा नित्यं कान्तिरिवात्मजा ।। १८३३ ॥
P
२१५