SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ waminwwwmmmmmm... २१४ श्रीवर्धमानसूरिविरचितं [स.२.१८१०-१८२१] रक्षणीयः सदा दक्षैः पुरे ऽपि व्यसनी वसन् । पापानां व्यसनं मूलं पापं दुःखततेरिव ॥ १८१० ॥ धर्मस्याव्यसनं मूलं धर्मः सर्वसुखश्रियाम् । व्यसने सुखमिच्छन्ति मूढाः शैत्यमिवानले ॥ १८११ ॥ सर्वव्यसनमुक्तेषु युक्तेषु मुकृतोत्सवैः । पुरुषेषु त्वया तात रचनीया रतिस्ततः ॥ १८१२ ॥ इत्यसौ सचिवाचार्यवाचा प्रीतो नृपात्मजः । मेने मुधा सुमनसः मुधयाप्युन्मुदः सुरान् ॥ १८१३ ॥ कदाचन सभागर्भ भूपो भास्वरसेवकम् । अलंचकार सत्तारमिव ताराविभुनभः ॥ १८१४ ॥ नृपाननदिनाधीशस्मितस्य सचिवेशितुः। . अङ्के पङ्केरुहस्येव हंसो भूपालभूरभूत् ॥ १८१५ ॥ वितन्वानं कलावद्भिः कलालापमिलापतिः । सुतं पश्यन्वतं स्वस्मै तस्मै राज्यर्द्धिमैहत ॥ १८१६ ॥ तद्विवाहं स्वदीक्षायामन्तरायं धरापतिः । अमन्यतोवनम्रेण विज्ञप्तश्चाशु वेत्रिणा ॥ १८१७ ॥ स्वामिन्नामितसर्वारेः काम्पील्यनगरोशितुः । राज्ञः श्रीरत्नसेनस्य दूतो ऽस्ति द्वारि वारितः ॥ १८१८॥ चक्षुस्त्वन्मुखचन्द्रे ऽस्य प्रमोदयितुमिच्छतः । प्रभो पूरय संकल्पयवनीकल्पपादप ॥ १८१९ ॥ इत्याकर्ण्य नियुक्तो ऽयं राज्ञा भूवाल्लिसंज्ञया । तं द्रुतं वेत्रभृतं सभादेशमवेशयत् ॥ १८२० ॥ आविर्भूतमदो दूतस्तदोत्तंसस्फुरत्करः । नत्वा नृपमथादिष्टे निविष्टो विष्टरे पुरः॥ १८२१ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy