SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २१२ श्रीवर्धमानसूरिविरचितं [स.२.१७८६ - १७९७] ऋमात्कलाकलापेषु निर्भराभ्यासभामुरः । जज्ञे बोधविशेषेण गुरूणामप्ययं गुरुः ।। १७८६ ॥ खिन्नं लक्षणमार्गे तीव्रतर्कातुरं मुहुः । साहित्यामृतवापीषु पान्यवत्तन्मनो ऽविशत् ।। १७८७ ॥ दानहृद्यं सुविद्यं च तं देशान्तरकोविदाः । जङ्गमं श्रीसरस्वत्योः संगमं तीर्थमागमन् ।। १७८८ ।। अभ्यासाद्भमयन्नस्त्रीमङ्गस्य परितो ऽपि सः । लोहपञ्जरमध्यस्थ इवालोकि विलोककैः ।। १७८९ ॥ अभ्यास कुतुकेनापि को ऽप्यस्य न पुरः स्थितः । स दक्षो लक्षमाधाय स्तम्भमेव व्यजृम्भत ।। १७९० ॥ निर्विशेषपदन्यासः पुष्पाद्धम्मिल्लपातिनः । वरावेशादविज्ञातपूर्वपश्चात्पदक्रमः ।। १७९१ ॥ खेलन्खुरलिकाधानि वामदक्षिणमण्डलैः । स नाङ्गसादं न खेदं न च श्वासमदर्शयत् ।। १७९२ ॥ नीरसं नखमश्वस्य शतं च महिषत्वचाम् । सगुडेभभिदाभ्यासे शरैर्योधो विवेध सः ।। १७९३ ॥ शरैरलक्षितादानसंघानाकर्षमोक्षणैः । वेध्यानि विद्धवान्दूर चलसूक्ष्मदृढान्ययम् ।। १७९४ ॥ सर्वेषु सैप चित्रेषु दुःकरेषु च दुर्धरः । arted धराधी शैर्धनुर्धरधुरंधरः ।। १७९५ । मेचके ज्याकिणश्रेणी भुजयोस्तस्य रेजतुः । हृद्धशौर्यदन्तीन्द्रमदलेखाद्वयोपमे ।। १७९६ ।। भौ स भूपतेः सूनुः प्रचलेषु परिस्फुरन् । तुरङ्गेषु तरङ्गेषु प्रतिबिम्बं रवेरिव ।। १७९७ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy