________________
~
~
~
~
~
~
[स.२.१७७४-१७८५] वामुपूज्यचरितम् २११
एवमस्त्विति बनत्यामेतस्यां ग्रन्थिमंगुके । बहिर्बभूव कम्बूनां प्रातस्त्यो मङ्गलध्वनिः ॥ १७७४ ॥ अथोद्यत्प्रमदामोदः सत्रियो मेदिनीपतिः । क्षणं स्थितो नमस्कारमन्त्रध्यानस्थमानसः ॥ १७७५ ॥ एतौ विशेषतस्तत्र मन्त्रे प्रसृमरादरौ । शमयामासतुर्दुःखं गमयामासतुर्दिनान् ॥ १७७६ ॥ दिनेषु परिपूर्णेषु पूर्णेन्दुवदनस्ततः । सूनुर्जज्ञे जयावल्या शुभे ऽह्नि शुभलक्षणः ॥ १७७७ ॥ पुत्रजन्मोत्सवं यो यः कथयामास भूभुजे । स ददावुद्यदानन्दस्तस्य तस्याधिकाधिकम् ॥१७७८ ॥ तत्कालं नृपतेर्मुक्तबन्धबन्धुरचेतसाम् । तत्र पुत्रे तदोत्पने द्विषामप्युत्सवो ऽभवत् ।। १७७९ ॥ अस्मिन्गर्भस्थिते चन्द्र उदरे ददृशे ऽम्बया । इति स्वमाद्ददौ भूपस्तस्य चन्द्रोदराभिधाम् ॥१७८०॥ समं राज्यश्रिया बालः सो ऽवर्धत दिने दिने । परा परिणतिः पञ्चपरमेष्ठिनमस्कृतेः ॥ १७८१ ॥ स पञ्चवर्षदेशीयः सहर्षमवनीभुजा । कलागुरुभ्यो निःशेषकलाशिक्षार्थमर्पितः ॥ १७८२ ।। काममभ्यस्यतस्तस्य प्रज्ञातिशयमीक्षितुम् । कलाः कौतूहलेनेव तदुपान्तमुपागताः ॥ १७८३ ॥ बालो ऽयं लालयन्तीभिः प्रहृष्टाभिर्मुहुर्मुहुः। कलाभिः कुतुकात्काममङ्कादमनीयत ॥ १७८४ ।। तथा कथंचिद्दक्षाभिः कलाभिलालितः शिशुः। यथा ताभिविना नायं वचित्क्षणमपि स्थितः ॥ १७८५ ॥