________________
श्रीवर्धमानसूरिविरचितं [स.२.१७३८-१७४९]
उग्रः कर्मपरीणामो राजास्मिन्नुप्रशासनः ।। १७३८ ।। शुद्धात्मा जीव एवैतन्मन्त्री शुद्धमतिर्मतः । नित्यमित्रं पुनस्तस्य यथोदितगुणं वपुः ।। १७३९ ॥ जनो जनितसौजन्यस्तस्य पर्वसुहृन्मतः ।
गुरूपदेश एवास्य पूज्यो विश्वहिताभिः ।। १७४० ॥ तच्छिक्षयामुना राजन् यः प्रणामसुहृत्कृतः । तं विद्धि लोकनाथाख्यं धर्ममेवाद्भुतं प्रभुम् ।। १७४१ ॥ दृष्टाः सुप्तोत्थितेनाये तेन ये निष्ठुरा नराः । ते दुःकर्मगणा व्याधिमृत्युदुर्गतिहेतवः ।। १७४२ ।। तैरुद्धो निःक्रियं वीक्ष्य जीवः शुद्धमतिर्वपुः । तस्मिन्नुपकृतं मेने भस्मनि क्षिप्तवत्तदा ।। १७४३ ॥ कदाचित्किचिदप्येष यद्ददौ स्वजने जने ।
तदा धावति दुःखार्ते तदमन्यत साध्विव ॥ १७४४ ।। कृष्टो ऽङ्गेन गले धृत्वा क्रन्दति स्वजने शुचा । नीतो यत्रैष कूपो ऽसौ नरको दुःखसाग्निकः || १७४५ ॥ शरणं लोकनाथो ऽस्तु ममेति गदिते ऽमुना ।
ये पुरुषाः कर्मगणास्ते धर्मसाक्षिकाः ।। १७४६ ॥ जितदुः कर्मभिर्निन्ये यत्र सत्कर्मभिस्त्वसौ । लीलावासः स धर्मस्य विवेकाख्यो ऽतिनिर्मलः || १७४७|| दानशीलतपोभावसत्पादोपशमासनम् । गुरूपदेशावष्टम्भं तत्रासौ धर्ममैक्षत ।। १७४८ ।। श्रीधर्मेण स्वसौधाभूमौ कालं कमप्ययम् । देवेषु सम्यग्दृष्टिवपदे सौख्येन लालितः ।। १७४९ ॥ ततः शिक्षास्थिरं मार्गे विषयैरत्रलोभितम् ।
२०८