________________
[स.२.१७५०-१७६१] वासुपूज्यचरितम्
२०९ धर्मस्तं मन्दिरे मुक्ती मुक्तवानकुतोभये ॥ १७५० ॥ येन प्रणाममात्रेण प्रसन्नेनेति निर्मितम् । स धर्मो विधिनाराद्धो राजनिक किं न यच्छति॥१७५१।। अथाभ्यधाद्धरित्रीन्द्रस्तत्क्रियोनिद्रमानसः । धर्मस्याराधने देवीसखं शिक्षयताशु माम् ॥ १७५२ ।। शमामृतसमुद्रोमिशीकरप्रकरैस्ततः। अक्षरः शिक्षयामास साधुर्धर्मविधौ नृपम् ॥ १७५३ ॥ धर्मस्य तस्याईत्सिद्धाचार्योपाध्यायसाधवः । यथा पश्चेन्द्रियाणीव तुष्यन्ति नृप तत्कुरु ॥ १७५४ ॥ मुखसाध्यमसंभाव्यप्रत्यूहकणमप्यहो। पृथिवीप्रिय तत्वीतेरुपायं विपुलं शृणु ॥ १७५५ ॥ जयत्यम्भःशिखिविषस्तम्भनः प्रियलम्भनः । महामन्त्रो नमस्कारः पञ्चानां परमेष्ठिनाम् ॥ १७५६ ॥ मामासुरश्रेणीकर्षणे ऽस्य फिमद्भुतम् । यत्करोति नमस्कारः संमुखी मुक्तिमप्यसौ ॥ १७५७ ।। राजन्सैष शुचीभूय त्रिकालं जप्यते यदि । तदयं प्रीयते धर्मः प्रसन्नसकलेन्द्रियः ॥ १७५८ ॥ इत्युदीर्य मुनीन्द्रो ऽयं सरहस्यं रहस्यदात् । राज्ञे पश्चनमस्कारमन्त्रं पावित्र्यशालिने ॥ १७५.९ ।। मन्त्रमाप्य धरित्रीन्दुः प्रीतश्च प्रियया सह । गतश्च गगनं देहातियोतितदिग्मुनिः ॥ १७६० ॥ मुनीन्द्रदर्शनानन्दरसास्वादविचेतनः । चिरं स्थित्वैव तत्रैव भवनं भूविभुर्ययौ ॥ १७६१ ।। अथो यथाविधि धराधिपतिः प्रतिवासरम् ।