SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ [स.२.१७२७-१७३७] वासुपूज्यचरितम् २०७ रविच्छविप्रतापेन जातो यत्रायमाकुलः । तत्र च्छायातरून्पुष्पगायद्भुङ्गानवैक्षत ॥ १७२७ ॥ दावाग्नौ च ज्वलज्ज्वाले विशाले च द्रुमोच्चये । तस्मिन्विस्मेरयामास दृशं समरसामसौ ॥ १७२८ ॥ आकरयत्सु तद्रक्षामनुष्येषु मृदूक्तिभिः । नासौ प्रपञ्चयामास हेलयापि विलोचनम् ॥ १७२९ ॥ इति शुद्धमतिः सिद्धप्रतिज्ञः सत्वरं व्रजन् । अनन्यसदृशाकारं केवलैः स्फटिकैः कृतम् ॥ १७३०॥ अदृष्टपूर्व निर्भाग्यैः सभाग्यैश्च महगृहम् । पुरो निरूपयामास लोकनाथेन दर्शितम् ॥ १७३१ ॥ युग्मम् ॥ तदालोकनसंजातपरमानन्दमनहत् । स तृणं गणयामास चक्रिशक्रादिसंपदः ॥ १७३२ ॥ प्रविशाशु महासौधं तदेतत्ते ऽकुतोभयम् । तमित्युक्त्वाचलल्लोकनाथो लोकेष्टसिद्धये ॥ १७३३ ॥ इति सर्वेष्टदं सर्वकष्टपिष्टकरं प्रभुम् । त्वमप्येनं महीनाथ लोकनाथं सुहत्कुरु ॥ १७३४ ॥ मुश्च दुःखं न दुःखेन भवन्तीष्टानि कुत्रचित् । आराध्वहि रयाल्लोकनाथमिष्टार्थसिद्धये ॥ १७३५ ॥ अथापृच्छत्मियः पृथ्व्या लोकनाथः स कः प्रभो । कथं चाराध्यते ऽसौ तमारानोमि मियासखः ॥ १७३६ ॥ इत्थमुक्ते नृपेणायं मुनिराचष्ट खेचरः । अन्तरङ्गधिया राजन्विचारय कथामिमाम् ॥ १७३७ ॥ संसार एव दुःपारो दूरपाराभिधं पुरम् ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy