________________
श्रीवर्धमानसूरिविरचितं [स.२.१७१५-१७२६]
कदाचिच्छलयित्वामी त्वां ग्रहीष्यन्ति शत्रवः ।। १७१५ ।। तन्पुचे मित्र कुत्रापि भवन्तं यत्र तत्र ते । मुखलोने Sपर्न समर्थाः कथंचन ।। १७१६ ।। किं तु कष्टतरः पन्थाः सुदूरं तत्र गच्छताम् । क्षुत्तृष्णादिमहादुःखं सहमानैर्विलङ्घयते ।। १७१७ ॥ द्विधेहि दृढं क्लेश सहने गहने मनः ।
२०६
• मामन्वेहि कृतिन्देहि कण्ठपीठे पदं द्विषाम् ॥ १७१८ ।। मनोहारिभिराहार्यैर्लोभयित्वा पदे पदे ।
पथि त्वामाह्वयिष्यन्ति स्नेहमारभ्य वैरिणः ।। १७१९ ॥ अङ्गेन वाचा चित्तेन संभावयसि तान्यदि । तच्छलाद्गृह्यमाणं तैस्त्वां रक्षिष्याम्यहं न हि ।। १७२० ॥ इत्यतुं शिक्षयित्वैप लोकेशः प्रस्थितः पथि । तद्वद्धनिश्वयः शुद्धबुद्धिरन्वचलन्मुदा ।। १७२१ ॥ तृषितो यत्र यत्रैष विषमे ऽजनि वर्त्मनि । तत्र तत्र पयः शीतं पिधागच्छेति भाषिणीः ।। १७२२ ॥ स्फारहाराय लंकाराः शृङ्गारस्येव देवताः । आलोकत पयः शालापालिका वरबालिकाः ।। १७२३ ।। ॥ युग्मम् ॥
पान्थ संघातपादाग्रपातरुग्णे रजोजुषि । तृणे च तत्र स्त्रैणे च सदृशस्तद्दृशो ऽपतन् ।। १७२४ ॥ क्षुत्झामकुक्षिर्यत्राभूत्तत्रा लोकत सो ऽग्रतः ।
सज्जाः षड्रसनिर्मज्जद्भोजना भाजनावलीः ।। १७२५ ।। अध्वन्यमण्डली खेदप्रस्वेदजलपिच्छले | रजोभारे ऽप्यसौ तत्र हारे ऽपि समदर्श्यभूत् ।। १७२६ ।।