________________
[स.२.१७०४-१७१४] वासुपूज्यचरितम्
तद्वीक्ष्य विस्मितो ऽथायमध्यायद्धिग्ममौचितीम् ॥ सर्वस्वं नित्यमित्राय दत्तं नो सत्कृतो ऽप्ययम् ॥१७०४॥ अभविष्यद्गतिः का मे कामेन चरतः क्षितौ । नतिमप्यकरिष्यं चेनास्य विश्वहिताक्तिभिः ॥१७०५॥ इति चिन्तार्तचित्तो ऽयं लोकनाथं ननाम च । तेनालिङ्गय धृतश्चाङ्के सप्रमोदवशंवरः ॥ १७०६ ॥ किं मित्र विधुरो ऽसीति पृष्टस्तैन महात्मना । शुद्धधीरभ्यधादात्मन्युयशासनतो भयम् ॥ १७०७ ॥ अथामुं स महात्माह किं भयं ते श्रितस्य माम् ।, क उग्रशासनस्तस्य दुःखं मूर्वि मुखे रजः ॥ १७०८ ॥ न सच्चक्रे मया किंचिदयमित्यपि मा शुचः । सत्कृतिभ्यः समस्ताभ्यो महती सत्कृतिनतिः ॥१७०९।। सेवकानां ददल्लक्ष्मी शौर्यादेः स्यानृपो ऽनृणः ।, ननु तेषां प्रणामस्य कथमप्यनृणो भवेत् ॥ १७१० ॥ ततः कृतप्रणामस्य न भवामि तवानृणः । पदं त्रैलोक्यसाम्राज्यादप्युत्तरमनर्पयन् ।। १७११ ॥ कृतिकिचिटणस्यास्य ददें यावत्कलान्तरमें। .' तावत्तिष्ठैव मत्पार्च मा कुतो ऽपि भयं कृथाः ॥१७१२॥ इत्युक्त्वा स गृहस्याग्रभूमौ तेनाधिरोपितः । तस्थौ मुखस्पृह्मतुल्यकालपूर्णमनोरथः ।। १७१३ ॥ कैरप्यथ दिनैरेनं लोकनाथो ऽभ्यधादिति । . ज्ञातो ऽसीह चिराविधनुशासनकिंकरैः ॥ १७१४ ॥ वश्वयित्वैव मे सम्यग्दृष्टिं तुष्टैकचेष्टिताः ।..