SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २०४ श्रीवर्धमानसूरिविरचितं [स.२.१६९३-१७०३] स तैः समं ब्रजन्नग्रे शिखरोल्लिखिताम्बरम् । अतुल्योल्लासिकल्याणमयसर्वाङ्गमुन्दरम् ॥ १६९३ ॥ अवचूलमिलन्मुक्तावलीवलयमञ्जुलम् । खविस्तारगुणैर्भूरिपूरिताशासमुच्चयम् ॥ १६९४ ॥ अङ्गीकृतमहारतुरकरयकुआरम् । आल्यं प्रीतिमानकं सविवेकं व्यलोक्यत् ॥ १६९५ ॥ विभिर्विशेषकम् ॥ अथ कचित्कुरङ्गाक्षीशङ्गारैर्नयनोत्सबे । कचिद्दीतसुधासिन्धुतारणोत्तरलश्रुतौ ॥ १६९६ ॥ कचिद्धृहद्हारामसौरभ्योल्लासिनासिके । कचित्स्वायशतालोकप्रचलद्रसनाचले ॥ १६९७ ॥ कचिद्विलाससरसीमरुत्पुलकिताङ्गके । तस्मिन्सनि निश्छ्यप्रमोदः प्रविवेश सः ॥ १६९८ ॥ त्रिमिर्विशेषकम् ॥ अथारात्रिकसंकाशभ्रममार्तण्डमण्डलम् । दाराजितरौप्यार्घपात्राभमृगलाञ्छनम् ॥ १६९९ ॥ मङ्गलाक्षतसंभारनिभव्याकीर्णतारकम् । प्रणम्यमानं हृष्यद्भिः सुरासुरनराधिपः ।। १७०० ॥ स्तूयमानं स्वधीशक्त्या सर्वदर्शनमूरिभिः । प्रसादविशदां दृष्टिं ददतं सेवकान्मति ॥ १७०१ ॥ युते चतुर्मिश्चरणैर्भाग्येनापि सुदुर्लभैः। निविष्टं विष्टरे लोकस्पृहणीये महीयसि ।।१७०२ ॥ तस्य विश्वहितस्याड़े कृतावष्टम्भसुस्थिरम् । प्रणाममित्रं दीप्ताङ्गं लोकनाथमलोकयत् ॥ १७०३ ॥ पञ्चभिः कुलकम् ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy