________________
[स. २,१६८१ - १६९२] वासुपूज्यचरितम्
२०३
दीप्तोsस्य कूपस्य पार्श्वे ऽसौ तैरनीयत ।। १६८१ ॥ हहामुष्मिन्नहं क्षेप्यो मीभिः क्रूरतराशयैः ।
तत्कथं नु भविष्यामीत्युत्कम्पो ऽयमचिन्तयत् ।। १६८२ ॥ मयि विश्वहितेनोक्तं यदा दुःखे पतिष्यसि ।
त्वां सिद्धः सर्वगो लोकनाथः पास्यत्यसैौ तदा ।। १६८३|| स मे संप्रति कालो ऽयं करालो ऽतिभयंकरः । तदसौ भवतु श्रीमाञ्शरणं करुणार्णवः ।। १६८४ ॥ इत्यस्मिन्ध्यायति स्कायमानमञ्जुलतेजसः । हीरचीरपरीधानदृढबन्धकृशोदराः ।। १६८५ ॥ शुभ्रवज्र शिलागर्भमयदण्डोग्रपाणयः । अत्युदारहृदस्तारदृष्टयः स्कारमूर्तयः ।। १६८६ ।। मुक्तादामदृढग्रन्थिग्रहावलितवेणयः ।
उत्तरस्या दिशः केचिदीयुः सारत्वरा नराः ।। १६८७ ।।
॥ त्रिभिर्विशेषकम् ॥
अमुं मुञ्चतरे योद्धुं मत्ता धत्तायुधानि वा । इति तेषां गिरा भूपर्किकरैः समरे स्थितम् ।। १६८८ ।। ततस्तेषां च तेषां च दूरोद्भूतरजस्तमाः । प्रकम्पितजगच्चित्तः समरः समभून्महान् ।। १६८९ ॥ तैर्महापुरुषै राजपुरुषाः परुषायुधाः ।
उच्चैः स्थितस्य लोकस्य पश्यतो जघ्निरेतराम् ।। १६९० ॥ त्रासिताः पातिताः क्षुण्णा हारिता मारिताश्च ते । तैः सिद्धपुरुषैः पञ्चाच्चक्रे विजयनर्तनम् ।। १६९१ ॥ त्वत्मणाममुहृल्लोकनाथस्त्वामाह्वयेदिति ।
तं शुद्धबुद्धिं कूपान्तात्करेणादाय ते ऽचलन् ।। १६९२ ।।