________________
श्रीवर्धमानसूरिविरचितं [स.२.१६६९-१६८०]
सर्व कृतं तुभ्यमुक्तान्युपकृतानि हा ।। १६६९॥ अथातिविधुरो नित्यसुहृदभ्यधित क्रुधा । किमुद्धुष्यसि निर्लज्ज मत्कृते किं कृतं त्वया ॥१६७०॥ यथा यथाहं त्वद्दत्तमाहरामि तथा तथा । प्रीतिस्ते ऽभूततः स्वस्मै त्वया सर्व कृतं न मे ॥१६७१ ॥ मिथ्यावादिन मे कार्य राजद्विष्टकृता त्वया ।
२०२
तन्मे पार्श्व विमुञ्चेति धिक्स तेन गले धृतः || १६७२॥ इहान्तरे गृहान्तद्रवपार्वणः सुहृदाययौ । उग्रशासन संरुद्धं शुद्धबुद्धिं निशम्य सः ।। १६७३ ॥ नित्यमित्रे विमुक्ताशो दीनं चक्षुर्जलाविलम् । किंकर्तव्यत्वमूढो ऽसौ पर्बमित्रं प्रति न्यधात् ।। १६७४॥ जातं मित्र किमेतत्ते कथंचिच्छुट संप्रति । दत्त्वा मदीयं सर्वस्वं दुःखे ऽस्मिन्मां नियुज्य वा ।। १६७५ ॥ एवं गलज्जलभरं कलयन्नयनद्वयम् । पर्वमित्रस्य गां श्रुत्वा दध्यौ शुद्धमतिस्तदा । १६७६ ॥ पोषितः प्लोषितस्वेन धिग्मया पुरुषाश्रयः ।
हहा कृतं कृतज्ञस्य न कदाचन किंचन ।। १६७७ ॥ इत्ययं चिन्तयन्नेव नित्यमित्रेण शुद्धधीः । गले वाढतरं धृत्वा द्रुतं दूरीकृतः स्वतः ।। १६७८ ॥ मैनं नयध्वं स्थाने ऽस्य मां नयध्वं स्यादिति । पर्वमित्रे कृताक्रन्दे सो ऽग्राहि नृपकिंकरैः ।। १६७९ ॥ तैस्तस्मिन्बलतः कृष्टे कष्टं पर्वमुह्यभूत् । चिरात्पुत्रीं विवाह्येवाशेत नित्यसुहृत्पुनः ।। १६८० ॥ द्वादशार्कप्रभाचक्र कर्कशेन कृशानुना ।