________________
[स.२. १६५८-१६६८] वासुपूज्यचरितम्
क्रुद्धस्य भर्तुरादेशकृतो यूयं किमागताः। मयि केनापराधेन कारितं प्रभुणास्ति किम् ॥ १६५८ ॥ एवमेतेन ते पृष्टाः प्राहुर्भव दोषवित् । त्वं तु स्वाम्यादतः कृष्ट्वा क्षेपितो ऽस्यय कूपके ॥१६५९ ॥
युग्मम् ॥ इति तद्वाक्यमाकय सो ऽयं भयभराकुलः । नित्यमित्रं प्रति प्रोचे गिरा मन्दत्वगुप्तया ॥ १६६० ॥ सखे सखे समुत्तिष्ठ कथंचिदपि रक्ष मम् । उग्रशासनधात्रीशः क्रुद्धवानधुना मयि ॥ १६६१ ॥ कति संपदि मित्राणि न स्युर्लुब्धानि देहिनाम् । दृश्यते ऽपि विपत्तौ यः क्षितिस्तेनैव रत्नसूः ॥ १६६२ ॥ पितृमातृप्रियाभ्रातपुत्रादिभ्यो ऽपि वत्सलः । मुहन्ममासि सन्मित्रं दुःखोद्धाराय धार्यते ।। १६६३ ॥ तदिदानीं ममानेन क्लिश्यमानस्य भूभुजा । अपारदुःखकूपारतारणाय तरीभव ॥ १६६४ ॥ अथो म्लानाननो नित्यसुहृदित्याह किं नु भोः। नृपं दिशसि मे क्रुद्धं संबन्धः क इवावयोः ॥१६६५ ॥ किं नोपलक्षते ऽसौ मामिति भ्रान्त्येव शुद्धधीः । कस्ते चित्तभ्रमः किं मां न जानासीति तं जगौ ॥१६६६॥ अथायमूचे ज्ञातो ऽसि राजद्विष्टं किमप्यधाः । तत्त्वां न्यग्राहयन्न्यायाभिग्रहो ऽप्युग्रशासनः ॥१६६७ ॥ तन्मे राजविरुद्धेन न कार्य किमपि त्वया । स्वकृतस्य प्रमाणेन सहस्बैको ऽपि निग्रहम् ॥ १६६८ ॥ ऊचे सो ऽथ सखे नित्यमकृत्यं त्वक्तृते कृतम् ।