________________
२००
श्रीवर्धमानसूरिविरचितं [स.२. १६४६–१६५७]
आश्रितं पाति भूपाग्निकूप सर्पायपायतः ।। १६४६ ॥ इत्यस्य शिक्षया सख्यं तेन साकं चिकीर्षति । प्रमादाद्विस्मरत्येव शुद्धबुद्धिर्दिने दिने ।। १६४७ ॥ अभियोगे ततो विश्वहितेन विहिते मुहुः । तं ननामैकदा लोकनार्थं यानस्थ एव सः ।। १६४८ ॥ कदापि कार्यतो गच्छन्दूरे दृष्टस्य वर्त्मनि । तस्य प्रणामसंदेशं प्रेषयामास पार्श्वगैः ॥। १६४९ ॥ फलपुष्पादिकं चारु केनचिड्ढौकनीकृतम् । यस्य कस्यापि हस्तेन तस्मै प्रेषीत्कदापि सः || १६५०॥ दूरस्थोपि स्वयं गत्वा युग्यादुत्तीर्य नम्यते ।
स महात्मा स्वयं चास्मै ढोक्यं पुष्पफलादिकम् ।। १६५१ ॥ इत्थमाराध्यमानो ऽयमतिदाक्षिण्यपूरितः ।
दक्ष रक्षिष्यति स्पष्टं भवत्कष्टं कुतो ऽपि ते ।। १६५२ ॥ एवं पुनरसौ विश्वहितेनाभिहतो मुदा । यानादुत्तीर्य तं पुष्पफलैरर्चति वन्दते ।। १६५३ ॥ त्रिभिर्विशेषकम् ॥
अयमालोकितं मार्गे नियमेन नमत्यमुम् । इति प्रणामसुहृदं जगदुस्तस्य तं जनाः ।। १६५४ ।। इति मित्रत्रयीमेनामेष संतोषयन्सदा । उग्रशासनभूपस्य शासने सुचिरं स्थितः ॥ १६५५ ॥ एकदा नित्यमित्रेण सहैकशयने स्थितः ।
सुखं स एष सुष्वाव भूरिभोगविभूषणः ।। १६५६ ॥ यावभिद्रां मुमोचायं तावत्पार्श्वेष्वलोकत । श्यामाञ्शोणदृशः क्रूरान्नरानुगर्वमुद्गरान् ।। १६५७ ॥