________________
[स.२. १६३५ - १६४५] वासुपूज्यचरितम्
त्वद्दुःखे दुःखितो भावी सैष पर्वसुहृत्क्षणम् । भव्यो ऽयमपि किं त्वीदृग्मित्रार्थ न दिशाम्यहम् ।। १६३५ ।। यः स्यादल्पेन संतुष्टो नत्या वा स्तवनेन वा । दुःखेभ्यः क्षम उद्धर्तु स को ऽपि क्रियतां सुहृत् ।। १६३६|| विहस्य शिरसि न्यस्य शुद्धबुद्धिः करौ ततः । केहग्मया सुलभ्यो ऽपृच्छद्विश्वहितादिति ।। १६३७ ।। अथैष श्रवणानन्दप्रवणामन्दवाग्भरः । शुद्धबुद्धेः पुरो विश्वहितं विश्वहितो जगौ ।। १६३८ ।। विभावरीविभुविभासंनिभामलकुन्तलम् |
रङ्गगङ्गातरङ्गायमानश्रीवरचीवरम् ॥ १६३९ ॥
१९९
मुक्ता चन्दन कर्पूरपूरगौरतरद्युतिम् । तारकोटीरताडङ्कहारकेयूरकङ्कणम् ।। १६४० ।। आनाभिकूर्चमुत्तुङ्गविस्तीर्णाङ्गं सदा स्मितम् ।
दृशा प्रसन्नया पुंसः पश्यन्तं नमतो ऽयतः || १६४१ ॥ मध्येपुरं परिभ्राम्यन्शुद्धबुद्धे कदाचन ।
पुमांसं मांसल श्री कमीदृशं कापि पश्यसि ।। १६४२ ॥ चतुर्भिः कलापकम् ॥ अथ सो ऽभिदधे तात कदापि जिनसद्मनि । कदापि मुनिशालायां कदापि सदने सताम् ।। १६४३ ।। कदापि राजमार्गान्तः संचरन्तं नरोत्तमम् । संचरन्पार्थ पश्यामि सेव्यमानं वरैर्नरैः || १६४४ ॥ युग्मम् ।। इत्याकर्ण्य जगौ विश्वहितस्तत्तं सुहृत्कुरु ।
अङ्ग तत्संगमाधाने दुखं न स्यात्कुतो ऽपि ते ।। १६४५ ।।
स हि सिद्धः पुमाल्लोकनाथाख्यः सर्वगो महान् ।