________________
श्रीवर्धमानसूरिविरचितं [स. २. १६२३ - १६३४]
किं चैष पितृपूज्यो ऽयमिति दाक्षिण्यतः श्रुतिम् । दत्ते विश्वहिताख्यस्य पुंसो वाचि कदाचन ।। १६२३ ।। -अयमुल्लासमत्तो मां मन्यते ऽथ न मन्यते ।
१९८
इति द्विधामना विश्वहितः प्राह कदापि तम् ।। १६२४ ।। उदारस्फाररूपश्रीर्महाकुलसमुद्भवः ।
सुहृत्तवैष नो कस्य प्रयाति स्पृहणीयताम् ।। १६२५ ।। किं तु त्वमनुरक्तो ऽसि यथास्मिन्न तथा त्वयि । अयमन्तः कुशुद्धत्वाद्वारयत्यनुरागिताम् ।। १३२६ ।। • यतः स्नानेन भोज्येनालंक्रियेत यदैव न । - कदाप्यसत्कृत इव स्याद्विरूपस्तदैव सः ।। १६२७ ॥ तद्यावदैवतो न स्याद्वैचित्यममुना सह ।
दुःखे ऽप्याश्वासकस्तावत्कर्तुं को ऽप्युचितः सुहृत् ।। १६२८॥ यदा विघसे दैवात्सहानेन तदा तव ।
नान्यो भावी सुहृल्लोकैर्दूरस्यैस्तु हसिष्यसे ।। १६२९ ॥ एकं नेत्रमनेत्रेषु सूनुमेकमसूनुषु ।
एकं मित्रममित्रेषु जगुर्मित्राणि तत्कुरु ।। १६३० ॥ इति विश्वहितोत्त्यासौ किंचिदश्चितचेतनः । चक्रे मित्रं कृतज्ञाख्यमपरं शिथिलादरः ।। १६३१ ।। तमन्नवस्त्रालंकारगन्धताम्बूलमण्डलैः ।
सो s प्रीणयत्कृतज्ञाख्यं मित्रं पर्वणि पर्वणि ।। १६३२ ॥ पूज्यमानं समालोक्य तेन सर्वेषु पर्वसु । समाचचक्षिरे पर्ववयस्य इति तं जनाः || १६३३ ॥ ईदृग्विधसुहृद्वन्द्व निविडद्वन्द्वपातिनम् ।
स विश्वमहितो विश्वहितो ऽमुं पुनरभ्यधात् ॥। १६३४ ॥