________________
[स.२.१६११ - १६२२] वासुपूज्यचरितम्
१९७
ter इहार्थे
मृणु दृष्टान्तमस्ति विस्तीर्णवैभवम् ।
भूर्भुवः स्वत्रयीख्यातं दूरपाराभिधं पुरम् ।। १६११ ॥ यस्य भूमिहाण्याहुरोलोकं विचक्षणाः । उच्चैः शिरोगृहाण्यूर्ध्वलोकमालोकशालिनः ।। १६१२ ॥ महारम्भवशीभूतसुरासुरनरोरगः ।
उग्रशासन इत्येतत्पुरं पाति जनाधिपः ।। १६१३ ॥ दत्तमुचैः पदं येन तुष्टेनेव सुपर्वणाम् ।
अर्पितं कुपितेनेव द्विजिह्वानामधः पदम् ।। १६१४ ॥ बभूव सचिवः शुद्धबुद्धिरित्यस्य विश्रुतः । अशेषतत्पुरोदार सर्वव्यापारपारगः ।। १६१५ । प्रभोरादेशो नित्यं पुरे ऽस्मिंश्चरतश्चिरात् । पुरुषाश्रय इत्यस्य मिलितः सुहृदन्यदा ।। १६१६ ॥ स को sपि परमस्थेमा प्रेमास्मिन्नस्य विद्यते । बभूव भोजने येन भाजनस्यापि नान्तरम् || १६१७ ।। प्रीतिं बभार तेनैव स्नानालंकृतेन सः ।
न कदापि स्वयं स्नातो नालंकारं चकार वा ।। १६१८ ।। स्वयं कुसुमकर्पूरकस्तूरीचन्दनादिभिः ।
अमुं स वासयामास न चक्रे वासमात्मनः ।। १६१९ ।। दुःखितो दुःखितस्यास्य स्पृहां पूरयितुं सदा । सो भ्रमद्भुवने वाढं मूढः स्वार्थनिरुद्यमः ।। १६२० ॥ वयस्यो ऽपि समं शेते समं जागर्ति तेन सः । समं याति समं तिष्ठत्याधिक्यं प्रेम्णि दर्शयन् ।। १६२१ ।। इति तस्य महोद्दामप्रेम सरपेशलम् ।
नित्यासक्ततया नित्यमित्रमित्यमुमभ्यधुः ।। १६२२ ॥
C