________________
१५६
श्रीवर्धमानसूरिविरचितं [स.२.१५९९-१६१०]
त्वचरित्रकृशैः पापव्रजैरव्यथितप्रजम् ॥ १५९९ ॥ पौषधग्राहिणां भित्तिलम्बितै रत्नभूषणैः। अपि पौषधशालामु निशि ध्वस्ततमस्तति ॥ १६००॥ बभूव भुवनोहामरोचिर्लोचनगोचरम् । व्यक्तमुक्तावलीपुष्पमकरं नगरं तव ॥ १६०१ ॥
पञ्चभिः कुलकम् ॥ तदेतदवनीनेतर्दूरतः पश्यतो मम । प्रीतिप्रतिष्ठचित्तस्य चिन्ताभूदिति चेतसि ॥ १६०२ ॥ दूरतो. दुरितं जेता नेतास्य नगरस्य यः । आरामिकेण नारामो रामः स्यादधमात्मना ॥ १६०३ ॥ तत्तमत्र महात्मानं पश्यामीत्याशया मया । निक्षिप्तचक्षुषादर्शि भवानीक्षदुःखभूः ॥ १६०४ ॥ तत्तज्ज्ञातुमिहायातो महीधव जवादहम् । को न स्याद्धर्मधीराणां सतां दुःखेन दुःखितः ॥१६०५॥ तज्जल्प भुवनाकल्प दुखं किं धर्मिणो ऽपि ते । स्यादिन्दुधामधौतस्य काप्यर्तिः कुमुदस्य किम् ॥१६०६॥ अथाभ्यधत्त भूभा प्रभो दुःखतमो मम ।। सुतेन नयनाम्भोजसहस्रच्छविना विना ॥ १६०७ ॥ इदनी तत्परित्रस्तं तदभ्युदयसूचकः । यदेष वीक्षितो युष्मचरणावरुणोदयः ॥ १६०८ ॥ अथ पृथ्वीपतेः स्पष्टमिष्टार्थफलवल्लिकाम् । गिरमुल्लासयामास स मुनिः स्मितपुष्पिताम् ॥१६०९ ॥ भविष्यति शुभं भूप सर्वमेव तव ध्रुवम् । यदस्मिन्पथि पान्थानां फलमिष्टं पदे पदे ॥ १६१० ॥