________________
[स.२. १५८८ - १५९८] वासुपूज्यचरितम्
१९५:
क्रियमाणतपस्तारं मूर्तीभूतैश्च सेवितम् । कृतैः करिष्यमाणैव तपोभिरिव साधुभिः ॥ १५८८ ॥ विनयं धरनामानं विद्याधर मुनीश्वरम् । उत्तरन्तं पुरोभागे स्त्रस्य भाग्यमिवाद्भुतम् ।। १५८९ ॥ नवभिः कुलकम् ॥
पदं ददौ च स क्ष्मायां ननाम च जनाधिपः । तं त्रिः प्रदक्षिणीकृत्य सानन्दः सपरिच्छदः ॥ १५९० ॥ अथाधाय करौ मूर्ध्नि पृथिवीपालपुङ्गवः ।
मुनिं व्यजिज्ञपद्दत्ताशिषं कृत्ता शुभद्विषम् ।। १५९१ ॥ प्रभो नभोङ्गणस्यास्य किमभाग्यं विजृम्भितम् । किं भाग्यं मद्भुवो वा यत्तन्मुक्त्वा त्वमिमां श्रितः।। १५९२ अद्य नाथ कृतार्थो sहमद्य मे सफलं जनुः ।
अद्य मे जीवित श्लाघ्यमद्य राज्यं च मे ऽनघम् ॥ १५९३ तव स्तवामृते वाचि दर्शने श्वास सौरभे ।
पदस्पर्शे मिथोहत्या ममाक्षैः क्रियते कलिः ।। १६९४ ॥ तद्ध्वानिनीं सितां शीतां सुरभिं मधुरां गिरम् । यच्छ देशप्रसादेन पञ्चाक्षमीतये प्रभो ।। १५९५ ॥ युग्मम् ॥ अथ तीर्थेशसिद्धान्तकल्पद्रु कुलुमै पुनिः । वचोभिः शोभयामास वसुधावासवश्रवः ।। १५९६ ।। चिराद चौघसंघट्टविपाटनपटीयसीम् । नमः पथेन मे तीर्थयात्रामुवश कुर्वतः ।। १५९७ ॥ इदमचैव देवाधिदेवमन्दिरमण्डलैः ।
भद्र धर्मद्विपालास्तम्भैरिव विभूषितम् ।। १५९८ ॥ जिनेश धूपधूमोर्मिनाशितैर्म शकैरिव ।