________________
श्रीवर्धमानसूरिविरचितं [स. २. १५७६ - १५८७]
चिरादथ धरानाथो धैर्य संधाय कष्टतः । दुःखमनां प्रियामाह गलितार्गाला शुक् ।। १५७६ ॥ आहिताग्निरहं देवि नित्यं दुःखाग्निनामुना । त्वया सद्धर्मचारिण्या सयुक्तं प्रकटीकृतः ।। १५७७ ॥ तद्भाग्यं कास्ति ये येन त्वयि पुत्रं लभे शुभे । को जीवः पुण्यवांस्तादृगस्ति यस्ते सुती भवेत् ॥ १५७८ ॥ तत्खेदमरविन्दाक्षि मन्दीकुरु करिष्यते ।
२९४
!
सत्किंचन तपो येन भविष्यति सुतस्तव ।। १५७९ ॥ तद्वाक्यस्यानुसारेण भविष्यति सुतस्तव । -इत्याददे गिरं कीरो sप्य म्रद्रुमशिरश्वरः ।। १५८० ॥ मुदानुमोदमानौ तौ तद्वचः सदुपश्रुतिम् ।
दम्पती यावदुत्पश्यौ जातौ तावदपश्यताम् ।। १५८१ ॥ पूरिते जलभृज्जालैर्जम्वालैरिव वर्त्मनि । भीतमप्कायसंघट्टाच्चरन्तं गगनाङ्गणे ।। १५८२ ॥ स्वच्छन्दं गच्छतामिच्छाविच्छेदो भूदमीषु मा । इति दूरात्पुरो मार्ग मुञ्चन्तं दिवि पत्रिणाम् ।। १५८३ ॥ विकाशयन्तं लोकानां लोचनानि सरोजवत् । विगर्भादिवोत्कीर्ण कीर्ण कान्तिकदम्बकैः ।। १५८४ ॥ खेलतीनां चिरं पञ्चमहाव्रतमय श्रियाम् । विल। ससद्मपद्मायमानक्रमकराननम् ।। १५८५ ।। रङ्गदङ्गनखज्योतिर्लीीं लया लज्जितैरिव । अचित्तैरपि तैः स्वर्णरत्नभारैरभूषितम् ।। १५८६ ॥ सहामुनैव यास्यामि मोक्षे ऽपीति मनोरथात् । लाघवार्थमिव क्षामीभवताङ्गेन भासुरम् ।। १५८७ ॥