________________
[स.२. १५६४–१५७५] वासुपूज्यचरितम्
तादृग्रूपां निरूप्यालं भूपालो ऽप्यश्लथव्यथः । उपसृत्य शनैरे नामूचे दुःखार्द्रया गिरा ।। १५६४ ॥ किं देवि हृदि ते दुःखमिति वाक् श्रवणादियम् । सुप्तोत्थितेव वीक्ष्याग्रे भूपं संभ्रमभागभूत् ।। १६६५ ॥ आगते जीवितेशे ऽपि नोचितं रचितं मया । इति दुःखे ऽतिदुःखं सा दग्धे पिटकवद्दधौ ॥। १५६६ ॥ अथ चाटुचमत्कारचाटूक्तिः पृथिवीपतिः । ऊचे तां जनचेतांसि कर्णातिथ्ये नयन्नयम् ।। १५६७ ॥ मदागमन संरम्भमम्भोरुहमुखि त्यज ।
ܕ
भज वाचं दिवाचन्द्रसख्यं त्वन्मुखमाप किम् ॥ १५६८ ॥ नापराद्धं मया किंचित्को ऽन्यस्त्वय्यपराध्यति । जानामि चरचारेण कुशलं त्वत्पितुः कुले ॥ १५६९ ॥ कौतस्कुतेन सद्भन्ना विलासतरवस्तव ।
.
साञ्जनाश्रमदौघेन माता दुःखदन्तिना ।। १५७० ॥ इत्थं यथा यथापृच्छत्पृथ्वीनाथस्तथा तथा । उद्वाष्पविन्दुरेवाभूदियं नोवाच किंचन ।। १५७१ ॥ सा भूस्तदा तदालिभिः पञ्चालीभिरिवाभितः । धारालैर्हग्जलैर्दुःखकेलिधारागृहं कृता ।। १५७२ ॥ मुञ्चद्वाष्पाणि पाणिभ्यां प्रमृज्य नयनद्वयम् । अत्याग्रही महीकान्तस्तामपृच्छन्मुहुर्मुहुः ।। १५७३ ।। अथो कथंचिंदालम्ब्य सा धैर्यमिदमभ्यधात् । हा निःपुत्राहमित्युक्तमात्रे तारं रुरोद सा ।। १५७४ ।। इत्युक्तिश्रवणादेव नृदेवस्यापि चक्षुषी ।
पूरयामासतुः प्रावृण्मासाविव जलैरिलाम् ।। १५७५ ।।