________________
ran.---
-
-
-
-
१९२ श्रीवर्धमानसूरिविरचितं सि.२.१५५२-१५६३]
उदारतरतारापि निशेव शशिवर्जिता ॥ १५५२ ॥ तद्धातस्तात किं भूरिभूषापाषाणवाहिकाम् । मां व्यधाः सुतरत्नेन नैकेनापि व्यभूषयः ॥ १५५३ ॥ तिर्यग्नार्यो ऽपि पर्यन्तलीलालोलसुता वरम् । उत्सङ्गसंगतसुता वरं ग्रावस्त्रियो ऽपि ताः॥ १५५४ ॥ धिग्ममोत्सङ्गमतीणि पाणी कण्ठं च यैर्मुदा । नाध्यासितो न हट नाश्लिष्टो नालम्बितः सुतः ॥१५५५।। किं करोमि क गच्छामि निर्भाग्याहं हहा मम । सर्वेषामपि सौख्यानां स्थाने नैको ऽप्यभूत्सुतः ॥१५५६॥ ' इति दुःखौघसंघट्टस्फुटद्वक्षास्थलेव सा । तले रसालसालस्य भुवि न्यविशतालसा ॥ १५५७॥ शोषयन्तीव निःश्वासैर्वासो बाष्पपरिप्लुतम् । स्थगयन्तीव निःश्वासोद्भूतं बाष्पैर्महीरजः ॥ १५५८ ॥ करयुग्मेन जानुस्थकूपरेण धृतं शिरः। हृत्पद्मदुःखशल्येयं घूर्णन्तीव व्यकम्पयत् ॥ १५५९ ॥
युग्मम् ॥ दुःखं प्रष्टुमशक्ताभिर्बद्धपालिभिरालिभिः । साश्रुद्दग्भिः सनिःश्वासमुखीभवीक्षितैव सा ॥ १५६० ।। तदा विसृज्य भूजानिर्विरहव्यथितः सभाम् ।. ययावन्तःपुरं कान्तापरिरम्भोत्सवात्सुकः ॥ १५६१ ॥ जयावलीमनालोक्य तत्र तस्थौ न पार्थिवः । निशावियुक्तो राकेन्दुः कियद्वियति दीव्यति ॥ १५६२॥ एत्य लीलावनोत्सङ्गमुत्सुको निःपरिच्छदः । पुरः स्थितोऽपि भूपालो नालोकि कान्तया तया ॥१५६॥