________________
१८८ श्रीवर्धमानमूरिविरचितं (स.२.१५०८-१५१९]
स्वपुण्यनिवहस्येव स भिक्षाग्रहणेषु ते । प्रत्यूहव्यूहमत्युग्रं धिक् षण्मासावधिं व्यधात् ॥ १५०८ ।। निशि पापेन तेनेह तेने मायामयो रविः । सभोज्यजनसंघट्टा शकटानां घटा पुनः ॥ १५०९ ॥ महाकपटनाट्येन नानेनाप्यसि चालितः । यद्वा संसारनाब्येनाचालितः केन चाल्यते ॥ १५१० ॥ तन्मुने पापिना येन विरुद्धमिति ते कृतम् । स एवास्मि प्रभो विश्वमपराधं क्षमस्व मे ॥ १५११ ॥ इत्युक्त्वा दुःखहर्षाश्रुमिश्रदृष्टिरयं मुरः । बहुस्तुतिमहानादः पादयोरपतन्मुनेः ॥१५१२ ॥ अथात्तधर्मलाभोक्तिर्यतिर्नतिपरं मुरम् । तमुवाच विचाराधिचश्चच्चन्द्रिकया गिरा ॥ १५१३ ॥ नापराधं त्वया किं तु कृतिनुपकृतिः कृता । तव साहाय्यमाहात्म्याघदुःकर्म क्षितं मया ॥१५१४ ।। अपराधस्त्वया हन्त क्षन्तव्यः किं तु मामकः । यत्तवैवं बभूवाहं दुःकर्मार्जनकारणम् ॥ १५१५ ॥ एवं निश्छद्मनोधर्मसंलापं तन्वतोस्तयोः। उदयाचलचूलायां चण्डरोचिररोचत ॥ १५१६ ॥ एनं मुनि विनम्याथ विबुधो ऽयं तिरोदधे । ईर्यासमितिसंचारचारुर्मुनिरथाचलत् ॥ १५१७॥ स्वापराधानुतापेन तं मुनीन्द्रमनिन्द्रधीः । असेवत धृतान्तर्धिः स्वर्धामा शुद्धभावनः ॥१५१८॥ स मुनिर्भुवि शुद्धायां यत्र यत्र ददौ पदम् । तां तां स चक्रे प्रागेव देवो ऽकण्टककर्कराम् ॥ १५१९ ।।