________________
[स.२. १५२०-१५२९] वासुपूज्यचरितम् .. १८९
अमायिनः समायान्तं मुनिमुख्यस्य संमुखम् । हिंस्रं प्राणभृतां वारं स दूरेण न्यवारयत् ।। १५२० ॥ घर्मे समीरणीभूय छत्रीभूयोष्णदीधितौ । शिशिरीभूय तप्तोव्या सांनिध्यं स व्यधान्मुनेः ॥१५२१॥ एवं स विरहनाप ग्रामं रामपुराभिधम् । यावत्तावदलंच नभोगर्भ नभोमणिः ॥ १५२२ ॥ कुटुम्बिनो धनाख्यस्य धन्या नाम कुटुम्बिनी ।। त्याज्येनानेन दग्धेन तं मुनि प्रत्यलाभयत् ॥ १५२३ ॥ अहो दानमहो दानमिति जल्पनसौ तदा । चकार सुमनोवृष्टीरम्बरादम्बरः सुरः ॥१४२४ ॥ एवं पदे पदे तन्यमानधर्मप्रभावनः । तपो ऽस्रधारया कर्म प्रहरन्व्यहरन्मुनिः ॥१५२५ ॥ अथायमायुषः शेषे विहितानशनः कृती।। सशुचा तेन देवेन सेव्यमानपदाम्बुजः ॥ १५२६ ॥ स्मृत्वा पञ्चनमस्कारान्पादपोपगमस्थितिः । शुद्धध्यानरसोल्लासलयसंलीनमानसः ॥१५२७ ॥ आसन्नमुक्तिसौख्यौघनिष्यन्दैरिव पूरितम् । सर्वार्थसिद्धनामानं विमानं मुनिरासदत् ॥ १५२८ ॥
॥ त्रिभिर्विशेषकम् ॥ तथ्यां तदित्थमाकर्ण्य संवरस्य मुनेः कथाम् । कर्ममर्मभिदे ऽमुष्मै यतध्वं तपसे जनाः ।। १५२९ ॥
॥ तपश्चरणे संवरपुनीश्वरकथा ।