________________
१८६ श्रीवर्धमानमरिविरचितं [स.२.१४८५-१४९५)
न ज्ञाता यामिनी यान्ती न व्योमान्तर्वजन्रविः ॥१४८५/ स्वप्नो ऽयमिन्द्रनालं वा किं वा को ऽपि मतिभ्रमः । चक्रे देवेन केनापि माया मायाविनाथवा ॥ १४८६ ॥ किमनल्पैर्विकल्पैर्वा ममैभिर्निर्ममात्मनः । संदेहे सति देहाथ न गृहे ऽन्नमिदं ध्रुवम् ।। १४८७ ॥ इति निश्चित्य शुद्धात्मा स पटुः प्राह तो प्रति । शमामृतसमुद्रोमिच्छटाभिर्वर्णराजिभिः ॥ १४८८ ॥ मया ध्यानं निशारम्भे समारेभे ऽधुनैव च । अधुनैव च तिग्मांशुश्वरत्यम्बरशेखरः ॥ १४८९ ॥ तत्सत्यो ऽयमसत्यो वाभ्युदयः कर्मसाक्षिणः। इति संदेहदोलार्तमना नैवानमाददे ॥ १४९० ॥
युग्मम् ॥ गिरेरधिकमाहारं पयोधेरधिकं पयः। जीवोऽ ग्रहीदहोरात्रमज्ञातेषु भवेष्वपि ॥ १४९१ ॥ तत्तैर्यदि न तृप्तोऽ स्मि तदन्नेनामुनाद्य किम् । यास्यामि तृप्तिमात्तेन दिवसस्यापि संशये ॥ १४९२ ॥ इत्युदीर्य तपोवीर्यवयों धैर्यधुरन्धरः । स यावल्लीयते ध्याने शुद्धश्रद्धानमानसः ॥ १४९३ ।। न तावदनसां राजी न च राजीवबान्धवः । किंतु व्यलोकि मुनिना यथावस्था निशीथिनी ॥१४९४।।
युग्मम् ॥ नदेव दैवते मार्गे दूरं दुन्दुभयो ऽनदन् । शुद्धगन्धोदकैमिश्राः प्रसनुः पुष्पवृष्टयः ॥ १४९५ ॥ लीलाचलज्झलकारतारमाणिक्यकुण्डलः ।