________________
[स.२. १४७३-१४८४] वासुपूज्यचरितम्
१८५
कल्प्यमानामपि कापि नादत्ते ऽन्यैरपेक्षिताम् ॥। १४७३ ॥ इत्थं यथा यथा क्लिष्टो हृष्टः सो ऽभूत्तथा तथा । क्षयो हि कर्मणां मञ्जु मुनीनामुत्सवो महान् ॥। १४७४ ॥ अस्योद्यतविहारस्य निराहारस्य सर्वथा । सत्तामात्रशरीरस्य षण्मासा व्यतिचक्रमुः ।। १४७५ ।। कदापि कापि कान्तारे दिनान्ते शान्तचेतनः । तस्थौ धर्मद्विपालानस्तम्भातितनुर्मुनिः ।। १४७६ ॥ संसारतापनिर्वापसज्जपीयूषमज्जनम् । अथ मापदयं कायोत्सर्गध्यानलयं मुनिः || १४७७ ॥ ततो नखंपचीभूत भूतलक्षोदमण्डलः ।
तं को ऽप्यतापयत्तापो निशीथसमये महान् ॥। १४७८ ॥ किमेतदित्ययं यावद्विभावयति फुल्लदृक् ।
* ललाटंतपतेजस्कं तपनं तावदैक्षत ।। १४७९ ॥ पुरस्तुङ्गतरुस्तोमच्छायालीनामलोकत | भुञ्जानजनसंतानामसौ शकटमण्डलीम् ।। १४८० ॥ विहातुमुद्धतं दग्धमन्नं तन्मध्यगो नरः ।
तदैवात्युत्सुको निर्यन्नरेणान्येन भाषितः ।। १४८१ ॥ अस्मिन्महामुनौ मुक्तविकल्पे जिनकल्पिनि ।
कल्प्यमन्नमिदं देहि भिक्षाकालो हि संगति ।। १४८२ ।। दग्धेनानेन दत्तेन क्रीणासि सुकृतं न किम् । कृष्णाङ्गारेण किं लभ्यमानो नादीयते मणिः ।। १४८३ ॥ इत्यस्य वाक्यमाकर्ण्य महृष्यन्पुलकाञ्चितः ।
इदं प्रभो गृहाणेति सो नहस्तो ऽभ्यधान्मुनिम् ।। १४८४ ।। अथ साधुः सुधीर्दध्यौ किमियं मे प्रमत्तता ।