________________
१८४
श्रीवर्धमानमूरिविरचितं[स.२. १४६२-१४७२] अथ निर्मलचारित्रो वस्त्रपात्रादिकं मुदा । गुरोः पुरो ऽखिलं मुक्का परिपृच्छय परिच्छदम् ॥१४६२।। निःससार महासारः सैष मुरेः समीपतः। हन्तुं कर्मततीः कुम्भिपङ्क्तीरिव हरिगिरेः ॥ १४६३ ॥
॥ युग्मम् ॥ चरन्मार्गे ऽपवर्गस्य बलाद्विषयतस्करे। तपोधनो ऽयमस्ते ऽर्के न पदात्पदमप्यदात् ।। १४६४ ॥ कृतावैरः क्रूरेण सह मोहमहीभुजा । तस्थौ नैकत्र कुत्रापि सो ऽयमुद्यच्छवौ रवौ ॥ १४६५ ॥ स जाग्रत्कर्मसंग्रामव्यग्रीभूतमना इव । उद्दधे पदयोर्भनानोत्कटानपि कण्टकान् ॥ १४६६ ।। उदासीन इव स्थाने कृतरागापराधयोः । चकर्ष चक्षुषोरेष न तृणं न रजाकणम् ॥ १४६७ ।। आसन्नविलसन्मुक्तिवधूलीनमना इव । चरन्मार्ग न तत्याज तीव्रकर्करमप्यसौ ॥ १४६८ ॥ स्वदेहे ऽपि निरीहो ऽयमिति शुद्धमतियतिः । पुरः स्फुरति सिंहे ऽपि सहजा नात्यजद्गतिम् ॥१४६९।। कदाचिक्त्वचिदौचित्यचतुरैटौंकितं नरैः ॥ स धीरस्तुषसौवीरतकाचं त्याज्यमग्रहीत् ॥ १४७० ॥ एवमप्रतिबद्धन स्वविहारक्रमेण सः। . प्रतिकर्मविमुक्ताङ्गो निन्ये धात्री पवित्रताम् ॥१४७१॥ एवं विहरतस्तस्य गते काले कियत्यपि । अभूल्लाभान्तरायस्योदयः कश्चन कर्मणः ॥ १४७२ ॥ कचिन्न लभते भिक्षामकल्प्यां कापि नेच्छति ।