________________
[स.२.१४५०-१४६१] वासुपूज्यचरितम्
तावद्यावदियं सप्त मासैरजनि सप्तः ॥१४५० ॥ एकान्तरोपवासैश्च विहिताचाम्लपारणः। . पानाहारोज्झितैामाद्वहिरुत्तानशायिना ॥ १४५१ ॥ निःप्रकम्पेन सर्वोपसर्गवर्गसहिष्णुना। . अष्टमी प्रतिमा सप्ताहोरात्रैर्विदधे ऽमुना ॥ १४५२ ।।
युग्मम् ॥ इत्यं निष्ठागरिष्ठेन प्रतिमा सप्तभिर्दिनः । उत्कटिकासनस्थेन तेन तेने नवम्यपि ॥ १४५३ ॥ एवं सप्तदिनैरेव दशमी प्रतिमामुना। चक्रे वीरासनस्थेन सद्ध यानस्थिरचेतसा ॥१४५:४ ।। कृत्वा षष्ठमहोरात्रं स्थित्वा वीरासने ध्रुवे। . प्रतिमैकादशी चक्रे तेन लम्बितपाणिना ॥ १४५५ ॥ कृताष्टमः स संकोच्य पादौ लरबकरः स्थिरः। चक्रे मुक्तिशिलादृष्टिादशीमेकरात्रिकीम् ॥ १४५६ ॥ इत्थं यथोक्तविधिना तप्यमानो ऽद्भुतं तपः। .. विजहार महीपीठे सो ऽनरूपे कल्पकल्पनैः ॥ १४५७ ॥ __अथैकदा पदाम्भोजद्वयं सूरेर यं मुनिः। प्रणम्य शिरसि न्यस्य पाणी वाणीमिमां जगौ ॥१४५८॥ अनन्यदेयसद्धर्मबोधदायक नायक । जिनकल्पकृते ऽनुज्ञां यच्छ योग्यो ऽस्मि यद्यहम् ॥१४५९॥ श्रुतज्ञानाम्बुधिनीनन्नाराधकममुं गुरुः । . आदिशजिनकल्पाय मुक्तिश्रीकल्पभूर हे ॥ १४६० ॥ अथैष नवतत्त्वज्ञः सत्त्वभाजां शिरोमणिः । लब्धत्रिजगती राज्यीमवारमानममन्यत ॥ १४६१ ॥